________________
१५६ ] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
आमः कृतः । २८ । आमः परात् अनुप्रयुक्तात् कृशः आम एव प्राग् यः धातुः तस्मादिव कर्तरि आत्मनेपदं भवति ।
ईहांचक्रे । समूहांचक्रे, समूहांचकार । कृञः इति किम् ? भू-अस्तिभ्यां न भवति-ईक्षांबभूव । ईक्षामास ॥ २८ ॥
सेवा-साहस-गन्धन-अवक्षेप-प्रतियत्न-प्रकथा-व्यये । २९ । एषु अर्थेषु वर्तमानात् कृञः कर्तरि आत्मनेपदं भवति ।
महामात्रान् उपकुरुते-सेवते इत्यर्थः । साहसम् अविमृश्य प्रवृत्ति:-परदारान् उपकुरुते सहसा तेषु प्रवर्तते इत्यर्थः । गन्धनम् द्रोहेण परदोषोद्घट्टनम् तत्र- परान् उपकुरुते । अवक्षेपः निर्भर्त्सनम् कुत्सनं वा-दुर्वृत्तान् अवकुरुते–निर्भर्त्सयति, कुत्सयते वा इत्यर्थः । सतः गुणाधानाय अपायपरिहाराय वा पुनर् यत्नः प्रतियत्नः-एधोदकस्य उपस्कुरुते । प्रकथा-जनापवादान् प्रकुरुते-प्रकर्षेण कथयति इत्यर्थः, कथयितुं वा प्रारभते इत्यर्थः । व्यये-शतं प्रकुरुते-धर्माद्यर्थं विनियुङ्क्ते इत्यर्थः ।। २९ ॥
प्रसहने अधेः। ३०। ___ अधेः परात् प्रसहनार्थात् कृञः कर्तरि आत्मनेपदं भवति । प्रसहनम्-पराभिभवः परेण अपराजयः वा
तं हा अधिचक्रे-तम् अभिबभूव, तेन वा न पराजितः इत्यर्थः । प्रसहने इति किम् ? अधिकरोति ॥ ३० ॥
वा अनुपसर्गात् क्रमः। ३१ । अनुपसर्गात् क्रमतेः कर्तरि आत्मनेपदं वा भवति । क्रमते, कामति । अनुपसर्गात् इति किम् ? संक्रामति ॥ ३१ ।।
वृत्ति-सर्ग-तायने । ३२।। वृत्तिः आत्मयापनम् अप्रतिबन्धो वा । सर्गः तात्पर्यम् उत्साहो वा । तायनम् संतानः पालनम् स्फीतता वा । एतेषु अर्थेषु वर्तमानात् अनुपसर्गात् क्रमेः कर्तरि आत्मनेपदं भवति ।
शास्त्रे क्रमते बुद्धिः-आत्मानं यापयति, केन वा न प्रतिहन्यते इत्यर्थः । सूत्राय क्रमते-तदर्थ तत्परो भवति, उत्सहते वा इत्यर्थः । क्रमन्ते अस्मिन् योगाः-संतन्यन्ते स्फीता वा इत्यर्थः ॥ ३२ ॥
१ अत्र सप्तमसूत्रेण विकल्पेन आत्मनेपदम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org