________________
आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् । निद्रायति, निद्रायते ।। १५ ॥
_ वृत् 'आदेः स्य-सनि । १६ । 'वृत्'आदेः स्यादौ प्रत्यये सनि च विषये कर्तरि आत्मनेपदं भवति वा ।
वय॑ति, वर्तिष्यते । विवृत्सति, विवर्तिपते । वृत् वृध् स्यन्द् शुध् कृप् इति 'वृत् 'आदिः ।। १६ ॥
___ श्वस्तन्यां कृपः। १७ । कृपः कर्तरि श्वस्तन्याम् आत्मनेपदं वा भवति । कल्प्तासि कल्तासे ॥ १७ ॥
__'द्युत् 'आदेः अद्यतन्याम् । १८ । 'द्युत् 'आदेः कर्तरि अद्यतन्याम् आत्मनेपदं वा भवति । व्यद्योतत् , व्यद्योतिष्ट । अकृपत् , अकल्पिष्ट । भ्वाद्यन्तर्गणः द्युतादिः ॥ १८ ॥
शित्-आशिषोश्च मृत्रः । १९ । मृञः परं कर्तरि शितः आशिषः अद्यतन्याश्च आत्मनेपदं भवति ।
म्रियते । नियेत । म्रियताम् । अम्रियत । मृषीष्ट । अमृत । शित्-आशिषोश्च इति किम् ? ममार ॥ १९ ॥ ज्ञान-व्यय-विगणन-उत्सञ्जन-सम्मान-आचार्यक-भृतौ नियः । २० ।
ज्ञान-व्यय-विगणन-उत्सञ्जनेषु अर्थेषु सम्मान-आचार्यक-भृतिषु अर्थविशेषणेषु नियः कर्तरि आत्मनेपदं भवति ।
__ ज्ञानम् प्रमेयनिश्चयः-नयते विद्वान् स्याद्वादे-तत्र प्रमेयं निश्चिनोति इत्यर्थः । धर्मादिषु विनियोगः व्ययः-शतं विनयते-धर्माद्यर्थं विनियुङ्क्ते इत्यर्थः । विगणनम् ऋणादेः निर्यातनम्-मद्राः कारं विनयन्ते-निर्यातयन्ति इत्यर्थः । ऊर्व सञ्जनम् उत्सञ्जनम्उत्क्षेप गम्-माणवकम् उदानयते-उत्क्षिपति-उत्सञ्जति इत्यर्थः । सम्मानः पूजनम्-नयते विद्वान् स्याद्वादे-प्रमागमार्गवेदी जीवा-ऽजीवादीन् पदार्थान् युक्तिभिः स्थिरीकृत्य सम्मानयति-शिष्यबुद्धि प्रापयति इत्यर्थः । आचार्यकम् आचार्यकर्म-माणवकम् उपनयतेशिष्यं कृत्वा आत्मसमीपे करोति इत्यर्थः । भृतौ-कर्मकरान् उपनयते । ' ज्ञान 'आदिषु
१ कारं राजदेयभागम् । २ गुर्जरभाषायाम् उडाडे छे-उदानयते, हिन्दीभाषायाम् उडाता है । मूलधातु-उडाड (गु०) उडान (हि.)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org