________________
देवेल ! "
आख्याते द्वितीयः पादः समः तृतीयया । ११ ।
6
सम् 'पूर्वात् चरेः तृतीयान्तेन युक्तात् कर्तरि आत्मनेपदं भवति ।
अश्वेन संचरते । तृतीयया इति किम् ? ] ॥ ११ ॥
[
44
क्रीडः अकूजे । १२ ।
कूजः अव्यक्तशब्दनम् ततः अन्यत्र वर्तमानात् 'सम् 'पूर्वात् क्रीडतेः कर्तरि आत्मनेपदं भवति ।
संक्रीडते । अकूजे इति किम् ? संक्रीडन्ति शकटानि । समः इति किम् ? क्रीडन्ति ॥ १२ ॥
""
'उभौ लोकौ संचरति इमं चामुं च
परिवि अवात् क्रियः । १३ ।
एभ्यः परात् क्रीणातेः कर्तरि आत्मनेपदं भवति ।
परिक्रीणीते । विक्रीणीते । अवक्रीणीते | ' क्रियः' इति - अत एव निर्देशात्
प्रकृतिवत् अनुकरणं भवति " [ न्यायसंग्रहे न्याय ६ प्र० ८ ] इति विज्ञायते ।
तेन 'मुनी इत्याह ' इत्यादि सिद्धम् । ' परा-वेः जे' [ सू० ९] इत्यादौ वर्णमात्रस्य अनुकरणम् न साभिधेयस्य ॥ १३ ॥
Jain Education International
[ १५३
हृञः गतताच्छील्ये । १४ ।
गमनताच्छील्ये गम्यमाने हृञः कर्तरि आत्मनेपदं भवति ।
पैतृकम् अश्वा अनुहरन्ते - पितृवत् गमनम् एतेषां स्वभावतः इत्यर्थः ॥ १४॥
क्यषः वा । १५ ।
6
क्य 'अन्तात् कर्तरि आत्मनेपदं वा भवति ।
१ इदं पद्यार्धम् सिद्धहेमबृहद्वृत्तौ ३।३।३२। सूत्रस्य उदाहरणे वर्तते, तत्र ' संचरसि ' इति पाठः । यद्यपि अत्र 'विद्यया' ' तपसा वा इति तृतीयान्तं गम्यते परं तु यत्र साक्षात् तृतीयान्तं तत्रैव इदं विधीयते अन्यथा कर्त्रा सह करणम् अवश्यमेव स्यात् ततः ' तृतीयया ' इति व्यर्था व्यावृत्तिः । २ अत्र सूत्रे ' क्रियः' इति पदम् स्यायन्तम् ' की 'धातोः घातुत्वेन नामसंज्ञाया अभावे कथं स्यादिविभक्तिसंभवः ? अत्र समाधानम् - प्रकृतिवत् अनुकरणम् । प्रकृतिसादृश्येन न धातुत्वम् किन्तु प्रकृत्यर्थसूचकत्वेन नामत्वम् तेन स्यादिविधानं सुसंगतम् । तेनैव न्यायेन अत्र मुनी' इति पदं द्विवचनान्त' मुनी 'पदस्य अनुकरणम्" इति न्यायेन द्विवचनत्वेन संधेरभावः ।
•
अनुकरणम् ततश्च ' प्रकृतिवत्
२०
For Private & Personal Use Only
www.jainelibrary.org