________________
१५२ ] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
सर्पिषः नाथते-सर्पिः मे भूयात् इति आशास्ते इत्यर्थः । आशिषः अन्यत्र न भवति-मधु नाथति-याचते इत्यर्थः । अस्य ङित्वम् 'अन 'अर्थम् । ‘शिक्ष' इति शके: सन्नन्तस्य ग्रहणम् , 'शिक्षि विद्योपादाने' इत्यस्य तु इदित्त्वेनैव सिद्धम् । विद्याः शिक्षतेजिज्ञासितुम् आत्मनः शक्तुम् इच्छति इत्यर्थः । स्वाभिप्रायस्य परत्र आविष्करणम् उपलम्भनम्-शपथ इति यावत् । चैत्राय शपते- वाचा 'मातृ 'आदिशरीरसंस्पर्शनेन चैत्रस्य स्वम् अभिप्रायम् आविष्करोति इत्यर्थः । उपलम्भनात् अन्यत्र न भवति-चैत्रं शपति-आक्रोशति इत्यर्थः । भुङ्क्ते । उपभुङ्क्ते । त्राणे तु न भवति-पृथ्वी भुनक्ति । सआकारपाठनिर्देशात् 'भुज् कौटिल्ये' इत्यस्य न भवति-पाणिं निर्भुजति ॥ ६ ॥
वा उपसर्गात् अस्य-ऊहः । ७। उपसर्गात् पराभ्याम् अस्यति-ऊहिभ्यां कर्तरि आत्मनेपदं वा भवति ।
विपर्यस्यति, विपर्यस्यते । समूहति, समूहते । उपसर्गात् इति किम् ? अस्यति । ऊहते ॥ ७ ॥
उत्-स्वरात् अयज्ञे तत्पात्रे युजः। ८। उदः स्वरान्तात् च उपसर्गात् परात् युनक्तेः कर्तरि आत्मनेपदं भवति न चेत् युज्यर्थः यज्ञे तत्पात्रविषयः स्यात् ।
उद्युङ्कते। वियुङ्कते। उत्-स्वरात् इति किम् ? संयुनक्ति । अयज्ञे तत्पात्रे इति किम् ? द्वन्द्वं यज्ञपात्राणि प्रयुनक्ति । 'तत्पात्रे' ग्रहणम् किम् ? रैन्धनपात्राणि यज्ञे प्रयुङ्क्ते ॥८॥
परा-वेः जेः।९। .... परा-विभ्याम् उपसर्गाभ्यां परात् जयतेः कर्तरि आत्मनेपदं भवति ।
- पराजयते । विजयते । बहुवि जयति वनम् इत्यत्र अनुपसर्गत्वात् अप्रयोगाच्च न भवति ॥ ९ ॥
कर्मणा उदः चरेः । १० । — उत् 'पूर्वात् चरेः कर्मणा योगे सति कर्तरि आत्मनेपदं भवति ।
ग्रामम् उच्चरते-भक्षयति इत्यर्थः । कर्मणा इति किम् ? धूप उच्चरति-उद्गच्छति इत्यर्थः । उदः इति किम् ? चारिं चरति ॥ १० ॥
१ 'नाथ' इति धातोः । २ आकारसहितपाठनिर्देशात् । ३ अत्र यज्ञीयपात्राभावेन भवत्येव आत्मनेपदम् । “यत्र तु यज्ञ एव न तु तत्पात्रम् , तत्पात्रमेव न तु यज्ञः तंत्र भवत्येव " इति ३।३।२६। सूत्रे हैम वचनम् । ४ विः पक्षी-बहुवि बहुपक्षिकम् इति भावः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org