SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ आख्याते दितीयः पादः साप्य-अनाप्यात् कर्म-भावे कृत्य-क्त-खलर्थाः।१। सकर्मकात् धातोः कर्मणि अकर्मकात् च भावे कृत्य-क्त-खलाः प्रत्यया भवन्ति । कार्यः कटः । शयितव्यं भवता । कृत्यं भवता । कृतः कटः । शयितं चैत्रेण । सुकरः कटः । सुग्लानं दीनेन ॥ १ ॥ ___ आत्मने ।२। सकर्मकात् कर्मणि अकर्मकात् च भावे धातोः आत्मनेपदं भवति । क्रियते कटः चैत्रेण । भूयते त्वया ॥ २ ॥ इ-डितः कर्तरि ।। इदितः ङितश्च धातोः कर्तरि आत्मनेपदं भवति । एधि-एधते । शीङ्-शेते ॥ ३ ॥ . अगति-हिंसा-शब्दार्थ-हसः क्रियाव्यतिहारे हृ-वहश्च अनन्योन्यार्थे ।४। ___ अन्यचिकीर्षितायाः क्रियायाः अन्येन तकियायाश्च तेन हरणं क्रियाव्यतिहारः। तदर्थात्. गति-हिंसार्थ-शब्दार्थ-हस्वर्जात् धातोः हृ-वहिभ्यां च कर्तरि आत्मनेपदं भवति, न तु अन्योन्यार्थशब्दप्रयोगे । ___ व्यनिलुनते । व्यतिपुनते । व्यतिहरन्ते । व्यतिवहन्ते । अगति-हिंसा-शब्दार्थ-हसः इति किम् ? व्यतिगच्छन्ति । व्यतियान्ति । व्यतिन्नन्ति । व्यतिहिंसन्ति । व्यतिजल्पन्ति । व्यतिगदन्ति । व्यतिहसन्ति । क्रिया' इति किम् ? द्रव्यव्यतिहारे मा भूत् । व्यतिहारे इति किम् ? लुनन्ति । अनन्योन्यार्थे इति किम् ? अन्योन्यस्य व्यतिलुनन्ति । क्रियाव्यतिहारः व्यतिना एव द्योतितः इति ‘अन्योन्य 'आदिभिः तत्कर्म अभिसंबध्यतेअन्योन्यस्य केदारम् ।। ४ ॥ - शीय-अपस्कृ-संक्ष्णु-निविशः। ५ । ___ एभ्यः कर्तरि आत्मनेपदं भवति । शीयते । अपस्किरते । संदणुते । निविशते ॥ ५ ॥ नाथ-शिक्ष-शपि-भुजात् आशीर्-जिज्ञासा-उपलम्भन-अत्राणे । ६। .. एभ्यः यथासंख्यम् ‘आशीर् 'आदिषु अर्थेषु कर्तरि आत्मनेपदं भवति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy