________________
१५० ] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
पपौ । आतः इति किम् ? जगाम ॥ ३८ ॥ .: आत् इश् आताम्-आते-आथाम्-आथेः । ३९ ।
अकारात् परेषाम् एषाम् आतः इश् आदेशो भवति । - पचेताम् पचेते । पचेथाम् पचेथे । आत् इति किम् ? मिमाताम् । शकारः सर्वादेशार्थम् , उत्तरार्थः ॥ ३९ ॥
- यः सप्तम्या: । ४०। अकारात् परस्य सप्तम्याः ' या 'शब्दस्य इश् आदेशो भवति । पचेत् पचेताम् । पचेः ॥ ४० ॥
__याम्-युसोः इयम्-इयुसौ । ४१ । अकारात् परयोः याम्-युसोः यथासंख्यम् इयम् इयुम् इति आदेशौ भवतः । पचेयम् । पचेयुः ॥ ४१ ॥
अभुवः सिचः अनः पुम् । ४२ । सिचः प्रत्ययात् परस्य अनः स्थाने पुस् आदेशो भवति, न चेत् स सिच् भुवः परो भवति । अकार्षः । अभुवः इति किम् ? अभूवन् ॥ ४२ ॥
विदेः यस्तन्याः। ४३ । विदेः परस्य ह्यस्तन्याः अनः पुस् आदेशो भवति । अविदुः ॥ ४३ ॥
क्षिपश्चतः । ४४। द्विरुक्तात् जक्षादिपञ्चकात् च परस्य ह्यस्तन्याः अनः पुस् आदेशो भवति । अबिभयुः । अजक्षुः । अचकासुः ॥ ४४ ॥
वा द्विष्-आतः। ४५ । द्विषः आदन्तात् च परस्या ह्यस्तन्याः अनः पुस् आदेशो वा भवति ।
अद्विषुः अद्विषन् । अयुः अयान् । 'अजानन्' इत्यत्र व्यवधानात् न भवति ॥४५॥ इति श्रीमलयगिरिविरचिते शब्दानुशासने वृत्तौ आख्याते प्रथमः पादः समाप्तः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org