SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ आख्याते प्रथमः पादः तिपाम् णपः परस्मै । ३२ । विदेः परेषां परस्मैपदानां 'तिपू' आदीनां स्थाने यथासंख्यं 'णप् 'आदयः परस्मैपदानि भवन्ति । वेद विदतुः विदुः । वेत्थ विदथुः विद । वेद विद्व विभ । पक्षे- वेत्ति वित्तः विदन्ति । वेत्सि वित्थः वित्थ । वेद्मि विद्वः विद्मः || ३२॥ ब्रुवः पञ्चानाम् पञ्च आहश्च । ३३ । ब्रुवः परेषां ' तिप्' आदीनां पञ्चानां स्थाने यथासंख्यं 'णपू 'आदयः पञ्च आदेशा वा भवन्ति, ब्रुवश्व 'आह' आदेश: । आह आहतुः आहुः । आत्थ आहथुः । पक्षे ब्रवीति ब्रूतः ब्रुवन्ति । ब्रवीषि बथः ॥ ३३ ॥ आशिषि तु ह्योः तातङ् । ३४ । आशिषि विहितयोः तु ह्यो: तातङ् आदेशो वा भवति । जीवतात्, जीवतु, जीव त्वम् ॥ ३४ ॥ [ १४९ वेत्तेः आत्मने अन्तः रत् । ३५ । वेत्तेः परस्य आत्मनेपदस्य संबन्धिनः ' अन्त् ' इति अवयवस्य 'रत् ' इति आदेशों वा भवति । संविद्रत संविदते । आत्मने इति किम् ? विदन्ति ॥ ३५ ॥ शीङः । ३६ । 'वा' इति निवृत्तम् पृथग्वचनात् । शीङः परस्य आत्मनेपदस्थस्य अन्तः ' रत्' इति आदेशो भवति । शेरते । अशेरत ॥ ३६॥ Jain Education International अनतः अत् । ३७। 4 अनकारात् परस्य आत्मनेपदस्य संबन्धिनः अन्तः अत्' इति आदेशो भवति । चिन्वते । अचिन्वत । अनतः इति किम् ? व्यवन्ते || ३७ ॥ अतः णपः औ । ३८ । आतः परस्य णपः स्थाने औः आदेशो भवति । १ आकारात् । For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy