________________
१४८ ] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
चकासांबभूव । चकासांचकार । चकासामास । अनेकस्वरात् इति किम् ? पपाच ॥ २५ ॥
दय-अय-आस्-कासः। २६ । एभ्यः परः परोक्षायां विषये आम् प्रत्ययः भवति, भू-कृञ्-अस्ति च अनु परोक्षान्ताः प्रयुज्यन्ते ।
दयांबभूव, दयांचके, दयामास । पलायांबभूव, पलायांचक्रे, पलायामास । आसांबभूव, आसांचक्रे, आसामास । कासांबभूव, कासांचक्रे, कासामास ॥ २६ ॥
समिन्ध-जागृ-उषः वा । २७ । एभ्यः परः परोक्षायां विषये आम् प्रत्ययो भवति, भू-कृञ्-अस्ति च अनु तदन्तम् ।
समिधांबभूव, समिवांचक्रे, समिधामास, समीधे । जागरांबभूव, जागरांचकार, जागरामास, जजागार । उषांबभूव, उषांचक्रे, उषामास, उवोव ॥ २७ ॥
भी-ही-भृ-होः शिद्वत् । २८ । एभ्यः परः परोक्षायां विषये आम् प्रत्ययो भवति वा, स च शिद्वत् , भू-कृञ्अस्ति च अनु परोक्षान्तं प्रयोज्यम् ।
बिभयांबभूव, बिभयांचकार, बिभयामास, बिभाय । जिहयांबभूव, जियांचकार, जिहयामास, जिहाय । बिभरांबभूव, बिभरांचकार, बिभरामास, बभार । जुहवांचकार, जुहवांबभूव, जुहवामास, जुहाव ॥ २८ ॥
विदात कित् । २९ । वेत्तेः परः परोक्षायां विषये आम् प्रत्ययो वा भवति, स च कित्, “भू-कृञ्अस्ति च अनु परोक्षान्तं प्रयुज्यते । विदांबभूव, विदांचकार, विदामास, विवेद ॥ २९ ॥
पञ्चम्यां कृञ् पञ्चमी । ३० । वेत्तेः परः पञ्चमीविषये आम् प्रत्ययो वा भवति स च कित्, कृञ् च अनु पञ्चम्यन्तः प्रयुज्यते । विदांकरोतु, वेत्तु ॥ ३० ॥
शतुः कसुः। ३१ । वेत्तेः परस्य शतुः क्वसुः आदेशो भवति । विद्वान् , विदन् तत्त्वम् ॥ ३१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org