________________
आख्याते प्रथमः पादः
[१४७ सति वा अनितौ । २० । वर्तमाने अर्थे वर्तमानात् धातोः शतृ-आनशौ वा भवतः ' इति' शब्दप्रयोगाभावे ।
पचन् । शयानः । पक्षे पचति । शेते । हे पचन् ! । हे पचमान! । 'तिष्ठन् मूत्रयति "शयाना वर्धते दुर्वा' इत्यादौ ‘तिप् 'आदिना सह अन्वययोगात् धातोः परौ शतृ-आनशौ सेस्यौ वा भवतः इतिशब्दप्रयोगाभावे । यास्यन् । शयिष्यमाणः । पक्षे यास्यति । शयिष्यते । अनितौ इति किम् ? करिष्यति इति व्रजति ।। २० ॥
क्वसु-कानौ परोक्षावत् । २१ । ___ धातोः परौ कसु-कानौ वा भवतः तौ च परोक्षावत् । कार्यार्थातिदेशः अयम् तेन द्वित्वादिकम् कालविशेषश्च सिद्धः । ... पेचिवान् । पेचानः । पक्षे पपाच । पेचे ॥ २१ ॥
श्रु-सद-वस्-इणः कर्तरि भूते । २२ । एभ्यः भूतमात्रे काले कर्तरि परोक्षावत् क्वसु-कानौ वा भवतः ।
शुश्रुवान् । उपसेदिवान् । ऊघिवान् । ईयिवान् । अत्र परत्वात् इटि कृते द्विर्वचनम् , परस्मैपदित्वात् एभ्यः न कानसंभवः । पक्षे अश्रौषीत् । उपासदत् । अवात्सीत् । अगात् ॥ २२ ॥
अनूचान-अनाश्वत् । २३ । एतौ भूते काले कान-क्वसुअन्तौ कर्तरि वा निपात्येते ।
अनूचानः । अनाश्वान् । पक्षे अन्ववोचत् । नाऽऽशीत् ॥ २३ ॥ गुरुनामिआदेः अन्ऋच्छ-ऊर्णोः आम् परोक्षायाम् भू-कृञ्-अस्ति
वा अनु तदन्तम् । २४ । ऋच्छ-ऊर्गुवात् गुरुनामिआदेः धातोः परोक्षायां विषये आम् प्रत्ययो भवति तदनन्तरं च भू-कृञ्-अस्तयः परोक्षान्ताः प्रयुज्यन्ते ।
ईहांबभूव । ईहांचके । ईहामास । उञ्छांबभूव । उञ्छांचकार । उञ्छामास । अनुग्रहणम् अव्यवधानार्थम् तेन 'ईहां चैत्रश्चक्रे' इत्यादि न भवति ॥ २४ ॥
अनेकस्वरात् । २५ । अनेकस्वरात् धातोः परोक्षायां विषये आम् प्रत्ययः भवति, भू-कृञ्-अस्ति च अनु परोक्षान्ताः प्रयुज्यन्ते ।
१ भविष्यत्कालसूचकस्यसहितौ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org