________________
आचार्य श्रीमलयगिरिविरचितं शब्दानुशासनम् । क्रियातिपत्तिः । १४ ।
स्यत् स्यताम् स्यन् । स्यस् स्यतम् स्यत । स्यम् स्याव स्याम । स्थल स्येताम् स्यन्त । स्यथास् स्येथाम् स्यध्वम् । स्ये स्यावहि स्यामहि । इमानि वचनानि क्रियातिपत्तिसंज्ञानि भवन्ति ॥ १४ ॥
- १४६ ]
त्रीणि त्रीणि अन्य - युष्मद्-अस्मदि । १५ ।
वर्तमाना 'आदीनाम् ' तिप् 'आदीनि त्रीणि त्रीणि वचनानि यथा संख्यम् अन्यस्मिन् युष्मदि अस्मदि च विषये भवन्ति ।
एवम् ' सप्तमी ' आदीनाम्
स पचति तौ पचतः ते पचन्ति । त्वं पचसि युवां पचथः यूयं पचथ । अहं पचामि आवां पचावः वयं पचामः । स पचते तौ पचेते ते पचन्ते । त्वं पचसे युवां पचे यूयं पचध्वे । अहं पचे आवां पचावहे वयं पचामहे । अपि । युगपत् अनेकप्रसङ्गे पराश्रयमेव वचनम् - स च त्वं च पचथः । त्वं च अहं च पचावः । ' एहि मन्ये रथेन यास्यति यातः ते पिता' इति प्रहासेऽपि यथाप्राप्तमेव वचनम् । ' रथेन यास्यसि ' इति काक्वा अभिधानात् प्रहासगतिः ॥ १५ ॥
८
एक-द्वि- बहुषु । १६ ।
'अन्य' आदिषु त्रीणि त्रीणि वचनानि यथासंख्यम् एक-द्वि- बहुषु अर्थेषु भवन्ति । स पचति तौ पचतः ते पचन्ति । इत्यादि ॥ १६ ॥
नव नव आद्यानि शतृ क्वसू व परस्मैपदम् । १७ ।
'वर्तमाना 'आदीनाम् आद्यानि नव नव वचनानि शत्रु क्वसू च परस्मैपदसंज्ञानि भवन्ति । परस्मैपदप्रदेशाः 'शेषात् परस्मै ' [ आख्याते द्वितीयपादे सू० ७० इत्येवमादयः ॥ १७ ॥
पराणि कान - आनशौ च आत्मनेपदम् । १८ ।
'वर्तमाना' आदीनाम् पराणि नव नव वचनानि कान- आनशौ च आत्मनेपदसंज्ञानि भवन्ति । आत्मनेपदप्रदेशाः ' आत्मने' [ आख्याते द्वितीयपादे सू० २] इत्येवमादयः ॥ १८ ॥
Jain Education International
6
माङि शापे शतृ-आनशौ । १९ ।
माङ उपपदे धातोः परौ शतृ-आनशौ भवतः शापे गम्यमाने ।
मा पचन् । मा पचमानः ॥ १९ ॥
For Private & Personal Use Only
www.jainelibrary.org