________________
आख्याते प्रथमः पादः जिनेश्वराय नमः | क्रियार्थः धातुः । १ ।
कृतिः क्रिया पूर्वापरीभूतावयवा तदर्थः शब्दः धातुसंज्ञः भवति । भू-भवति । एधि - एधते । गोपायति । पापच्यते । अन्वयव्यतिरेकाभ्यां क्रियार्थत्वाऽगमः । धातुप्रदेशाः ' धातुः ' [ आख्याते तृतीयपादे सू० २७ ] इत्येवमादयः ॥ १ ॥ प्रादिः न अप्रत्ययः । २ ।
प्रादिः स्वराद्यन्तर्गणः स प्रत्ययान्तवर्जितः धातोः न अवयवः - धातुसंज्ञः न भवति, तं व्युदस्य ततः पर एव धातुः इत्यर्थः ।
अभ्यमनायत । प्रासादीयत् । अप्रत्यय इति किम् ? औत्सुकायत | ' असंग्रामयत शूरः' इति, न अयं 'सम् ' प्रादेः किन्तु धात्ववयवः यथा ' विच्छ 'आदिअवयवः विः ॥ २ ॥
अमौ दा-धौ दा । ३।
दारूपः धारूपश्च धातुः अमकारानुबन्धः दासंज्ञः भवति ।
दाणू - प्रणिदाता । देङ् - प्रणिदयते । डुदाञ् - प्रणिददाति । दो- प्रणिद्यति । धेट्प्रणिधयति । डुधाञ् प्रणिदधाति । दा-धारूपोपलक्षितस्य दासंज्ञाविधानात् दो-दे-टां शिति अपि दासंज्ञा सिद्धा । दीङ: ' दा 'रूपस्य बहिरङ्गत्वात् न भवति - उपादास्त | अम इति किम् ? दाम् - दातं बर्हिः । देम् - अव दातं मुखम् । 'दा 'प्रदेशाः - ' दा-स्थो: ' [ आख्याते पाद ६ सू० ४४ ] इत्येवमादयः ॥ ३ ॥
वर्तमाना । ४ ।
तिप् तस् अन्ति । सिप् थस् थ मिप् वस् मस् । ते आते अन्ते । से आ ध्वे । ए वहे महे । इमानि वचनानि वर्तमानसंज्ञानि भवन्ति ॥ ४ ॥
सप्तमी । ५ ।
I
यात् याताम् युस् । यास् यातं यात । याम् याव याम । ईत ईयाताम् ईरन् । ईथा ईयाथाम् ईध्वम् । ईय ईवहि ईमहि । इमानि वचनानि सप्तमीसंज्ञानि भवन्ति ॥ ५ ॥
१ आगमः - अवगमः - ज्ञानम् । २ ' स्वर्' इति स्वर्गवाचकम् अव्ययम् तदादिः 'च' आदिके मुख्यगणे अन्तर्गणः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org