________________
नाम्नि नवमः पादः
[१३९ 'वा' इति निवृत्तम् । अषष्ठी-तृतीयान्तस्य अन्यशब्दस्य 'राग'आदिषु उत्तरपदेषु नित्यं दक् आगमो भवति ।
अन्यद्रागः । अन्यदुत्सुकः। अन्यदास्थितः। अन्यदूतिः। अन्यदाशा । अन्यदास्था। अन्यदाशीः । अषष्ठी-तृतीयस्य इति किम् ? अन्यस्य अन्येन वा रागः अन्यरागः ॥७३॥
ईय-कारके । ७४।। योगविभागात् 'अषष्ठी-तृतीयस्य 'इति निवृत्तम् । अन्यशब्दस्य ईयप्रत्यये 'कारक'शब्दे च परे दक आगमो भवति ।
अन्यस्य इदम् अन्यदीयम् गहादिपाठात् ईयः । अन्यस्य कारकम् अन्यत्कारकम् ॥ ७४ ॥
नत्रः अश् । ७ । नञः उत्तरपदे परे ‘अश्' आदेशो भवति । अहिंसा । अब्राह्मणः ।। ७५ ॥
तिवादौ क्षेपे । ७६ । तिवाद्यन्ते क्षेपे गम्यमाने नञः अश् भवति ।
अपचसि त्वं जाल्म! । अकरोषि त्वं जाल्म ! । क्षेपे इति किम् ? न पचसि चैत्र!। अनुत्तरपदार्थं वचनम् ॥ ७६ ॥
अन् स्वरे । ७७। स्वरादौ उत्तरपदे परे नञः अन् आदेशो भवति । अनजः । अनश्वः ॥ ७७॥
'नख'आदयः । ७८ । एते यथादर्शनं निपात्यन्ते ।
नखः । नक्रः । नासत्यः । नमुचिः । नपुंसकम् । नाकः । नगः अप्राणिनि वानगः पर्वतः वृक्षः वा । पक्षे अगः । प्राणिनि तु नित्यमेव अश्-अगः वृषलः शीतेन । एकाद् अन्न-अनौ विंशत्यादौ-एकेन न विंशतिः एकानविंशतिः, एकानविंशतिःएकाद् ऊना विंशतिः । ' नख 'आदयः प्रेयोगगम्याः ।। ७८ ॥
१ प्रयोगे गम्याः । पू० प.. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org