________________
१४० ] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
__स्त्री-एकार्थे परतः स्त्री पुंवत् अनू । ७९ ।
परतः विशेष्यवशात् स्त्रीलिङ्गः ऊप्रत्ययान्तवर्जः स्त्रीलिङ्गे समानाधिकरणे उत्तरपदे परे पुंवद् भवति ।
दर्शनीयभार्यः । युवजानिः । स्त्री-एकार्थे इति किम् ? गृहिणीनेत्राः । परतः इति किम् ? द्रोणीभार्यः । अनूङ इति किम् ? करभोरूभायः । कल्याणीपञ्चमा रात्रयः इत्यत्र अपि समासान्ते कृते ‘पञ्चमी 'शब्दस्य पुंभावे ' स्त्रीलिङ्गम् उत्तरपदं न' इति न पुंवद्भावः ।। ७९ ॥
क्यङ्-मानि-पित्तद्धिते । ८०। . क्यङि प्रत्यये मानिउत्तरपदे पिति तद्धिते च परे परतः स्त्रीलिङ्गः अनूङ पुंवद् भवति । श्येनी-श्येतायते । अयम् अस्या दर्शनीयमानी। अजायै हितम् अजथ्यम् ।।८०॥
जातिश्च णि-तद्धितय-स्वरे । ८१ । परतः स्त्रीलिङ्गः अनूङ जातिश्च णौ परे यादौ स्वरादौ च तद्धिते विषयभूते पुंवद् भवति ।
एनी-एतयति । पट्वी-पटयति । एन्यां साधुः एत्यः । हस्तिनीनां समूहः हास्तिकम् । जातिग्रहणम् जातिप्रतिषेधनिवृत्त्यर्थम् । तद्धितय-स्वरे इति किम् ? कठीरूप्यम् । कठीमयम् । पट्टीरूप्यम् । पट्टीमयम् । विषयसप्तमीविज्ञानं किम् ? पट्टया भावः पाटवम् अत्र प्रत्ययोत्पत्तेः प्रागेव पुंभावे ‘लघ्वादेः इकः' [ ] इति अण् भवति ॥ ८१ ॥
___ एये अग्नायी। ८२ । 'एय 'प्रत्यये परे अग्नायी एव पुंवद् भवति ।
अग्नायी देवता अस्य आग्नेयः स्थालीपाकः । पूर्वेण एव सिद्धे एये नियमार्थ वचनम् , इह न भवति-श्येन्याः अपत्यम् श्यैनेयः ॥ ८२ ॥
न तद्धितः स्वरवृद्धिहेतुः अरक्त-विकारे । ८३ । रक्त-विकाराभ्याम् अन्यस्मिन् अर्थे यः विहितः तद्धितः स्वरवृद्धिहेतुः तदन्तः परतः स्त्रीलिङ्गः पुंवत् न भवति ।
१ इति हेतोः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org