SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ आचार्य श्रीमलयगिरिविरचितं शब्दानुशासनम् । तत्पुरुषे कृति बहुलम् । ४६ । अत्यञ्जनात् परस्याः सप्तम्याः कृदन्ते उत्तरपदे परे तत्पुरुषे समासे लुग् न भवति बहुलम् । स्तम्बेरमः । भस्मनिहुतम् । अप्सुचरः । शरदिजः । प्रावृषिजः । कचित् न स्यात्-भद्रचरः । काम्पिल्यसिद्धः । स्थण्डिलशायी । कचित् विकल्प - वर्षेजः, वर्षजः । मनसिजः, मनोजः । अप्सुजम्, अब्जम् । अकालवाचिनः शय-वासि वासेषु - ग्रामेशयः, ग्रामशयः । ग्रामेवासी, ग्रामवासी । ग्रामेवासः ग्रामवासः । अकालात् इति किम् ? पूर्वार्धशयः । क्वचित् अकृदन्तेऽपि । कालवाचिनः तन-तर-तम- कालेषु - पूर्वाह्णेतनः, पूर्वाह्णतनः । पूर्वाह्णेतराम्, पूर्वाह्नतरे । पूर्वाह्णेतमाम्, पूर्वाहृतमे । पूर्वाह्णेकालः, पूर्वाह्नकाल: 1 अपः योनि-मति-ये नित्यम् -अप्सुयोनिः, अप्सुमतिः । अप्सु भवम् अप्सत्र्यम् । क्वचित् अन्यत् एव- हृदयं स्पृशति हृदिस्पृक् । द्वितीयार्थे सप्तमी । तत्पुरुषे इति किम् ? धन्वनि कारका यस्य स धन्वकारकः ।। ४६ ।। प्राचां कारे व्यञ्जने । ४७ । - रक्षार्थं प्रजानां राज्ञे देयम् कारः । अत् त्र्यञ्जनात् परस्याः सप्तम्याः व्यञ्जनादौ उत्तरपदे प्राचां कारे विषये लग् न भवति । दृषदि षदि दातव्यः मात्रकः दृषदिमाषकः । समिधिमाषकः । वृत्तौ वीप्सायाः दानस्य च अन्तर्भावः । प्राचाम् इति किम् ? यूथपशुः । कारे इति किम् ? अभ्याहितपशुः कारात् अन्यद् देयम् । व्यञ्जने इति किम् ? अविकटोरणः । अत्-व्यञ्जनात् इति किम् ? जङ्घाकार्षापणः ॥ ४७ ॥ ૪ ] नाम्नि । ४८ । अत्-व्यञ्जनात् परस्याः सप्तम्या उत्तरपदे परे लग् न भवति नाम्नि विषये । त्वचसारः । युधिष्ठिरः । अरण्येतिलकाः । अत्-व्यञ्जनात् इति किम् ? भूमिपाशः । नदीकुक्कुटिका । नाम्नि इति किम् ? अक्षशौण्डः ॥ ४८ ॥ पर-आत्मभ्यां ङेः । ४९ । आभ्यां परस्य ङे: उत्तरपदे परे लग् न भवति नाम्नि विषये । परस्मैपदम् । परस्मैभाषः । आत्मनेपदम् । आत्मभावः । नाम्नि इति किम् ? परहितम् ॥ ४९ ॥ १ स्थण्डिलशालायाम् काचित् पा० । २ ३।२।१९ सूत्रे अभ्यर्हितपशुः इति मे । ३ " परस्मैभाषा । ४ आत्मनेभाषा' इति हैमे सूत्र ३ । २ । १७ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy