SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ ____ नाम्नि नवमः पादः. [१३३ द्वन्द्वे समासे वर्णः मासः भ्राता च पूर्वः पूर्वः प्राग् निपतति । ब्राह्मणक्षत्रियौ । क्षत्रियवैश्यो। वैश्यशूद्रौ । ब्राह्मणक्षत्रियविट्शूद्राः । फाल्गुनचैत्रौ । भीमसेनार्जुनौ । 'अनुग्रहणात् 'एकम्'इति निवृत्तम् ॥ ३९ ॥ भ-ऋतुतुल्यस्वरम् । ४० । भवाचि ऋतुवाचि च तुल्यस्वरम् अनुपूर्व द्वन्द्वे प्राग् निपतति । अश्विनीभरणीकृत्तिकाः । हेमन्तशिशिरवसन्ताः । तुल्यस्वरम् इति किम् ? आर्द्रामृगशिरसी । ग्रीष्मवसन्तौ ॥ ४० ॥ संख्या समासे । ४१ । संख्यावाचि समासे अनुपूर्व प्राग् निपतति । द्वित्राः । अशीतिशतम् ॥ ४१ ॥ प्रत्यये च स्यादेः श्लुक् । ४२ । समासे प्रत्यये च परे स्यादेः लुग् भवति । खट्वारूढः । पुत्रीयति । अत एव लुग्वचनात् 'नाम नाम्ना' [नाम्नि अष्टमपादः सूत्र १ ] इति उक्तौ अपि स्याद्यन्तानां समासः ॥ ४२ ॥ मध्य-अन्तात् सप्तम्या न उत्तरे पदे गुरौ । ४३ । मध्य-अन्तशब्दाभ्यां परस्याः सतम्याः गुरुशब्दे उत्तरपदे परे लुग् न भवति । मध्येगुरुः । अन्तेगुरुः ॥ ४३ ॥ अत्-व्यञ्जनात् स्वाङ्गात् अमूध-मस्तकात् अकामे । ४४। अदन्तात् व्यञ्जनान्तात् च स्वाङ्गवाचिनः मूध-मस्तकवर्जितात् परस्याः सप्तम्याः कामशब्दवर्जिते उत्तरपदे परे लुग् न भवति । कण्ठेकालः । उरसिलोमा । अत्-व्यञ्जनात् इति किम् ? अङ्गलिव्रणः । स्वाङ्गात् इति किम् ? मुखपुरुषा शाला । अमूर्ध-मस्तकात् इति किम् ? मूर्धशिखः । मस्तकशिखः । अकामे इति किम् ? मुखकामः ।। ४४ ॥ बन्धे घनि वा । ४५ । अत्-व्यञ्जनात् परस्याः सप्तम्याः घनन्ते बन्धशब्दे उत्तरपदे परे श्लुग् वा न भवति । हस्तेबन्धः, हस्तबन्धः । अत्-व्यञ्जनात् इति किम् ? गुप्तिबन्धः ॥ ४५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy