________________
नाम्नि नवमः पादः
[१३५ मनसः टः । ५०। 'मनः'शब्दात् परस्य टावचनस्य उत्तरपदे परे नाम्नि श्लुग् न भवति ।
मनसागुप्ता । मनसादेवी एवं नाम काचित् । नाम्नि इति किम् ? मनोदत्ता कन्या ॥ ५० ॥
आज्ञायिनि । ५१। 'मनः'शब्दात् परस्य टः आज्ञायिनि उत्तरपदे परे श्लुग् न भवति । . मनसाज्ञायी ॥५१॥
पूरणे च आत्मनः । ५२ । 'आत्म'शब्दात् परस्य टः आज्ञायिनि पूरणे प्रत्ययान्ते च उत्तरपदे परे श्लुग् न भवति । आत्मनाज्ञायी। आत्मनापञ्चमः । आत्मनाषष्ठः । “जनार्दनस्त्वात्मचतुर्थ एवं" ] इति बहुव्रीहिः ॥ ५२ ॥
पुम्-जनुषः अनुज-अन्धे । ५३ । पुम्-जनुःशब्दाभ्यां परस्य टः यथासंख्यं अनुजे अन्धे च उत्तरपदे परे श्लुग् न भवति ।
___ मनसाअनुजः । जनुषा जन्मना अन्धः जनुषाअन्धः । टः इति किम् ? पुमांसम् अनुजातः पुमनुजः ॥ ५३ ॥
ओजस्-अञ्जस्-सहस्-अम्भस्-तमस्-तपसः। ५४। एभ्यः परस्य टः उत्तरपदे परे श्लुग् न भवति ।
ओजसाकृतम् । अञ्जसाकृतम् । सहसाकृतम् । अम्भसाकृतम् । तमसाकृतम् । तपसाकृतम् ॥ ५४ ॥
स्तोक-अल्प-कतिपय-कृच्छात् असत्त्वे उसेः। ५५। असत्त्वे वर्तमानेभ्यः 'स्तोक'आदिभ्यः परस्य ङसेः उत्तरपदे परे श्लुग् न भवति ।
स्तोकान्मुक्तः । अल्पान्मुक्तः । कतिपयान्मुक्तः । कृच्छ्रान्मुक्तः । असत्त्वे इति किम् ? स्तोकभयम् । उत्तरपदे इति किम् ? निःस्तोकः ॥ ५५ ॥
१ इदमेव पद्यरूपम् उदाहरणम् सूत्र ३ । २ । १४ । हैमे । अत्र "आत्मा चतुर्थः अस्य इति बहुव्रीहिः' इति तत्रैव वृत्तौ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org