SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ नाम्नि नवमः पादः [.१३१ दश हस्त्यश्वाः । बहवः पाणिपादाः । तावन्तः गवाश्वाः ॥ २६ ॥ वा अन्तिके । २७। वृत्तिपदानां संख्यानस्य समीपे गम्यमाने द्वन्द्वः एकार्थः वा भवति । उपदश हस्त्यश्वम् , उपदशाः हस्त्यश्वाः । द्वन्द्वार्थस्य एकत्वात् अनुप्रयोगस्यापि बहुव्रीहेः एकत्वम् ॥ २७ ॥ . प्रथमोक्तं प्राक् । २८ । समासप्रकरणे प्रथमया उक्तं प्राक् निपतति ।। तृतीया-गिरिकाणः । आसन्नदशाः ॥ २८ ॥ 'राजदन्त'आदिषु । २९ । एषु समासेषु अप्राप्तप्रागनिपातं प्राग् निपतति । दन्तानां राजा राजदन्तः । पूर्व वासितम् पश्चात् लिप्तम् लिप्तवासितम् । नग्नमुषितम् । उदूखलमुसले । जम्पती । दम्पती । जायापती । निपातनात् 'जाया'शब्दस्य 'जम्भाव-'दम्'मावौ वा । स्वसृपती । पुत्रपती इत्यादि ।। २९ ॥ । विशेषणं सर्वादि-संख्यं बहुव्रीहौ । ३० । विशेषणम् सर्वादि संख्यावाचि च बहुव्रीहौ प्राग् निपतति । चित्रगुः । सर्वशुक्लः । द्विकृष्णः ॥ ३० ॥ क्ताः । ३१। तान्तं बहुव्रीहौ प्राग् निपतति । कृतकटः । कृतविश्वः । कृतत्रिकः । कृतप्रियः । बहुवचनं प्रियार्थम् ॥३१ ॥ काल-आकृतिजाति-सुखादिभ्यः वा । ३२ । कालवाचिनः आकृतिव्यङ्ग्यजातिवाचिनः 'सुख'आदिभ्यश्च क्तान्तं बहुव्रीहौ प्राग् निपतति वा । ..... मासजाता, जातमासा । सागरजग्धी, जग्धसाङ्गरा । सुखजाता, जातसुखा । आहिताग्निः, अग्न्याहितः । ऊढभायः, भार्योढः । आकृतिव्यङ्ग्यजातिग्रहणं किम् ? आहूतब्राह्मणः । 'सुख'आदयः प्रयोगगम्याः ॥ ३२ ॥ १३।१।१५२ सूत्रे शाङ्गर-इति हैमे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy