SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ १३० ] आचार्य श्रीमलयगिरिविरचितं शब्दानुशासनम् । एते द्वन्द्वा एकार्था वा भवन्ति । अश्ववडवम्, अश्ववडवौ । पूर्वापरम्, पूर्वापरौ । अधरोत्तरम्, अधरोत्तरौ । 'अश्ववडव' इति अत एव निर्देशात् आपः निवृत्तिः ॥ २१ ॥ विरोधिनाम् अद्रव्याणाम् । २२ । द्रव्यम् गुणाद्याधारः, तद्व्यतिरिक्तानां विरोधिनां स्वैः द्वन्द्वः एकार्थः वा भवति । शीतोष्णम्, शीतोष्णे । लाभालाभम्, लाभालाभौ । विरोधिनाम् इति किम् ? रूपरसगन्धस्पर्शाः । अद्रव्याणाम् इति किम् ? शीतोष्णे उदके । स्वैः इति किम् ? बुद्धिसुखदुःखेच्छाः । समाहारविवक्षायाम् एकत्वम् इतरेतरयोगविवक्षायाम् च अनेकत्वं सिद्धम् नियमार्थस्तु प्रपञ्चः ॥ २२ ॥ नित्यं नित्यवैरिणाम् । २३ । शाश्वतवैरिणां द्वन्द्वः नित्यम् एकार्थः भवति । अहिनकुलम् । काकोलूकम् । नित्यवैरिणाम् इति किम् ? गोपालि - शालङ्कायनाः अर्थान्तरकृतम् एष वैरम् | परत्वात् पशुद्वन्द्वविकल्पं बाधते - अश्वमहिषम् ॥ २३ ॥ 'गवाश्व' आदिः । २४ । 'गवाश्व' आदिः द्वन्द्वः एकार्थः भवति । I गवाश्वम् | गवेलकम् । गवाविकम् | अजैलकम् । अजाविकम् । कुब्जवामनम् । कुब्ज कैरातकम् । पुत्रपौत्रम् | अश्वचण्डालम् । स्त्रीकुमारम् । दासीमाणवकम् । उष्ट्रखरम् । उष्ट्राशम् । मूत्रपुरीषम् । यकृन्मेदः । मांसशोणितम् । दर्भशरम् | अर्जुनपुरुषम् । तृणोपलम् । कुटीकुटम् । दासीदासम् । भागवतीभागवतम् । यथेोच्चारितरूपग्रहणात् इह न भवति - गोडवौ, गोअवौ ॥ २४ ॥ न ' दधिपयः' आदिः । २५ । 'दधिपय: 'आदिः द्वन्द्वः एकार्थः न भवति । दधिपयसी । मधुसर्पिषी । शिववैश्रवणौ । स्कन्दविशाखौ । शुक्लकृष्णे । दीक्षातपसी । आद्यवसाने इत्यादि ।। २५ ॥ Jain Education International संख्याने । २६ । संख्यानम् इयत्तापरिच्छेदः, तस्मिन् सति द्वन्द्वः एकार्थः न भवति । १ ३ । १ । १४४ सूत्रे " श्वचण्डालम्' इति श्रीहेमचन्द्रपादाः | २ गोऽस्वौ गोअस्वौ पू० । For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy