SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ नाम्नि नवमः पादः [ १२९ प्राणिवर्जितानाम् वक्ष्यमाणफलादिवर्जितानां च जातौ वर्तमानानां स्वैः द्वन्द्वः एकार्थः भवति । आराशस्त्रि । धानाशष्कुलि । अप्राणि-फलादेः इति किम् ? ब्राह्मणक्षत्रियविट्शूद्राः, ब्राह्मणक्षत्रियविटशूद्रम् । बदरामलके, बदरामलकम् । अश्वरथौ, अश्वरथम् । प्लक्षन्यग्रोधौ । जातौ इति किम् ? सह्यविन्ध्यौ। जातिपरचोदनायाम् अयम् एकवद्भावः इति इह न भवति–इमे आरा-शस्यौ तिष्ठतः ॥ १६ ॥ फलानां बहुत्वे । १७। फलवाचिनां बहुत्वे वर्तमानानां जात्यर्थानां स्वैः द्वन्द्वः एकार्थः भवति । बदेराणि च आमलकानि च बदरामलकम् । बहुत्वे इति किम् ? बदरं च आमलकं च बदरामलके । जात्यर्थानाम् इति किम् ? द्रव्यपरचोदनायां मा भूत्-एतानि बदरामलकानि तिष्ठन्ति ॥ १७ ॥ सेनाङ्ग-क्षुद्रजन्तूनाम् । १८ । सेनाङ्गानाम् क्षुद्रजन्तूनां च बह्वर्थानां स्वैः द्वन्द्वः एकार्थः भवति । अश्वाश्च रथाश्च अश्वरथम् । क्षुद्रजन्तवः अल्पकायाः प्राणिनः आनकुलं स्मर्यन्तेयूकामत्कुणम् । बहुत्वे इति किम् ? अश्वरथौ । स्वैः इति किम् ? हस्ति-मशकाः ॥१८॥ ... तरु-तृण-धान्य-मृगपक्षिणां वा । १९ । एषां बह्वर्थानां स्वैः द्वन्द्वः एकार्थः वा भवति । प्लक्षन्यग्रोधम् , प्लक्षन्यग्रोधाः । कुशकाशम् , कुशकाशाः । तिलमाषम्, तिलमाषाः । हंसचक्रवाकम् , हंसचक्रवाकाः । बहुत्वे इति किम् ? प्लक्षन्यग्रोधौ। मृगाणां पशुत्वात् उत्तरेण एव सिद्धौ इह उपादानम् अमृगैः अबहुत्वे च एकत्वाभावार्थम् ॥१९॥ पशु-व्यञ्जनानाम् । २० । 'बहुत्वे' इति निवृत्तम् पृथग्योगात् । पशूनाम् व्यञ्जनानां च स्वैः द्वन्द्वः एकार्थः वा भवति । गोमहिषम् , गोमहिषौ । दधिघृतम् दधिघृते । परत्वात् पशुद्वन्द्वः सेनाङ्गत्वं बाधते-हस्त्यश्वम् , हस्त्यश्वाः ॥ २० ॥ अश्ववडव-पूर्वापर-अधरोत्तराः । २१ । १ हस्तिमसको पा• । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy