________________
१२८] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् । - 'पुष्य'अर्थात् नक्षत्रे वर्तमानात् परः नक्षत्र एव वर्तमानः 'पुनर्वसु'शब्दः द्वयर्थः सन् सहोक्तौ एकार्थः भवति ।
पुष्य-पुनर्वसू । 'पुष्य'अर्थात् इति किम् ? आर्द्रा-पुनर्वसवः । भे इति किम् ? पुष्य-पुनर्वसवः माणवकाः ॥ १२ ॥
प्राणि-तूर्याङ्गाणाम् इन्द्रः स्वैः । १३ । प्राणिअङ्गानाम् तूर्यअङ्गाणां च सजातीयैः यः द्वन्द्वः स एकार्थः भवति ।
कर्णनासिकम् । शिरोग्रीवम् । शङ्खपटहम् । मार्दङ्गिकपागविकम् । स्वैः इति किम् ? पाणिगृध्रौ । पाणिपटहौ ॥ १३ ॥
चरणस्य स्था-इणः अद्यतन्याम् अनुवादे । १४ ।
चरणशब्दः वेदशाखानिमित्तः तदध्यायिषु वर्तते । प्रमाणान्तरप्रतिपन्नस्य अर्थस्य शब्देन संकीर्तनम् अनुवादः "अनुकरणम्" [ ] इति अन्ये । चरणवाचिनाम् अद्यतनीपरयोः स्था-इणोः कर्तृत्वेन संबन्धिनाम् स्वैः द्वन्द्वः अनुवादविषये एकार्थः भवति ।
प्रत्यष्ठात् कठकालापम् । उदगात् कठकौस्तुभम् । चरणस्य इति किम् ? उदगुवत्सवाजाः । स्था-इगः इति किम् ? आनन्दिषुः कठकालापाः । अद्यतन्याम् इति किम् ? प्रतितिष्ठन्ति कर-कौस्तुभाः । अनुवादे इति किम् ? उद्गुः कठकालापाः अप्रसिद्ध कथयन्ति ॥ १४ ॥ निकटपाठ-पात्र्यशूद्र-अनपुंसकअध्वर्युक्रतु-विलिङ्गनदी-देश-पुराम् ।१५॥
एषां स्वैः द्वन्द्वः एकार्थः भवति ।
निकटपाठाः पाठेन आसन्नाः-पदम् अवीयानः पदकः, एवम् क्रमकः पदकक्रमकम् । येषां मुक्तं पात्रं संस्कारेण शुध्यति ते शूद्राः पात्रम् अर्हन्ति इति पात्र्याः-तक्षअयस्कारम् । रजकतन्तुवायम् । पात्रग्रहणम् किम् ? जनङ्गमबुक्कसाः । अनपुंसकअध्वर्युक्रतु-अश्विमेधम् । अनपुंसकग्रहगम् किम् ? गवाऽऽमैयनआदित्याऽनामयने । अध्वर्युः यजुर्वेदः तद्ग्रहणं किम् ? इषुवज्रौ । क्रतूनाम् इति किम् ? दर्श-पौर्णमासौ । विलिङ्गनदी-देश-पुराम्गङ्गा च शोगश्च गङ्गाशोणम् । कुरवश्च कुरुक्षेत्रं च कुरुकुरुक्षेत्रम् । मथुरापाटलिपुत्रम् । समानलिङ्गानां तु न भवति-गङ्गायमुने । मद्रकेकयाः । मैथुरावाराणस्यौ ॥ १५ ॥
- अप्राणि-फलादेः जातौ । १६ । १ भुक्तं संस्कारेण पा० । २ अत्र आमयन-अनामयनशब्दो बोध्यौ । आमयनं हि अनारोग्यम् । ३ मधुरा पू० । ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org