________________
नाम्नि नवमः पादः
[ १२७ - स च चैत्रश्च तौ । 'त्यद्'आदीनां मिथः सहोक्तौ यत् यत् परम् तत् तत् एव एकं शेषः स च यश्च यौ । स्त्री-पु.नपुंसकानां परम्-सा च चैत्रश्च तौ । सा च कुण्डं च ते । स च सा च कुण्डं च तानि । द्वन्द्वविशेषणे तल्लिङ्गम् स च कुक्कुटः सा च मयूरी कुक्कुटमयू ते ।। ७ ॥
पुरुषः स्त्रिया तन्मात्रभेदे । ८ । 'पुरुष'शब्दः प्राणिनि पुंसि रूढः तद्वाची स्त्रीवाचिना सह सहोक्तौ शेषः भवति, तन्मात्रभेदे-स्त्री-पुरुषमात्रात् अन्यः यदि प्रकृतिभेदः अर्थभेदः वा न स्यात् इत्यर्थः ।
ब्राह्मणश्च ब्राह्मणी च ब्राह्मणौ । पुरुषः इति किम् ? तीरं नद-नदीपतेः । तन्मात्रभेदे इति किम् ? पुं-स्त्रियौ अत्र प्रकृतिभेदः। इन्द्र-इन्द्राण्यौ अत्र धवयोगलक्षणः अन्योऽर्थः ॥ ८ ॥
वृद्धः यूना ॥९॥ वृद्धप्रत्ययान्तः युवप्रत्ययान्तेन सह सहोक्तौ शेषः भवति ।
गाय॑श्च गार्यायगश्च गार्या । वृद्धः इति किम् ? गर्गगाायगौ। यूना इति किम् ? गर्ग-गाग्र्या । तन्मात्रभेदे इति किम् ? गार्ग्य-वात्स्यायनौ ॥ ९ ॥
स्त्री पुंवत् च । १०। वृद्धप्रत्ययान्तः स्त्रीवाची युवप्रत्ययान्तेन सह सहोक्तौ शेषः भवति तन्मात्रभेदे पुंवत् च । गार्गी च गाायणौ च गईन् ।॥ १० ॥
ग्राम्यअशिशुद्विखुरसंचे स्त्री प्रायः । ११ । ग्राम्यअशिशुद्विखुरसंघविषये स्त्री-पुरुषाणां सहोक्तौ स्त्रीवाची एकः प्रायेण शेषः भवति तन्मात्रभेदे ।
गावश्च स्त्रियः गावश्च पुरुषाः इमा गावः । ग्राम्यग्रहणं किम् ? रुरवश्च इमाः इमे रुरवः । अशिशु-इति किम् ? बर्यश्च बर्कराश्च इमे बर्कराः । द्विखुर-इति किम् ? गर्दभाश्च गर्दभ्यश्च गर्दभाः । संघे इति किम् ? गौश्च अयम् गौश्च इयम् इमौ गावौ । प्रायः इति किम् ? उ ाश्च उष्ट्यश्च उष्ट्राः । छागाश्च छाग्यश्च छागाः । तन्मात्रभेदे इति किम् ? गो-बलीवर्दाः ॥ ११॥
'पुष्य अर्थात् भे पुनर्वसुः एकः । १२ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org