________________
१२६ ] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
अर्थेन तुल्यानां सहोक्तिविषये एकः शेषो भवति अर्थात् अन्ये निवर्तन्ते ।
वक्रश्च कुटिलश्च वक्री कुटिलौ वा । अर्थेन समानाम् इति किम् ? प्लक्ष-न्यग्रोधौ। सहोक्तौ इति किम् ? वक्रश्च कुटिलश्च दृश्यताम् । द्वन्द्वापवादो योगः ॥ २ ॥
स्यादौ असंख्येयः । ३ । स्यादौ तुल्यरूपागाम् एकः शेवो भवति न तु संख्येयवाची ।
अक्षश्च शकटाक्षः अक्षश्च देवनाक्षः अक्षश्च बिभीतकः अक्षाः । एवम् पादाः । स्यादौ इति किम् ? माता च जननी माता च धान्यस्य मातृमातरौ, अत्र जनयित्रीवाचिनः मातरौ धान्यमातृवाचिन: मातारौ इति औकारे रूपभेदः । यस्मिन् स्यादौ एकरूपता तस्मिन् भवत्येव-मातृभ्याम् मातृभिः । असंख्येय इति किम् ? एकश्च एकश्च, अत्र द्वन्द्वोऽपि न भवति अनभिधानात् । विंशतिश्च विंशतिश्च विंशती इत्यत्र तु 'संख्यानबाचित्वात् भवति ॥ ३ ॥
पिता मात्रा वा । ४ । 'पितृ'शब्दः 'मातृ'शब्देन सह सहोक्तौ शेषो वा भवति । पिता च माता च पितरौ, मातापितरौ ॥ ४ ॥
. श्वशुर: श्वश्रूभ्यां वा । ५। 'श्वशुर'शब्दः श्वश्रू' शब्देन सह सहोक्तौ शेषः भवति वा ।
श्वशुरौ श्वश्रूश्वशुरौ । द्विवचनम् जातौ विकल्पार्थम् अन्यथा विकल्पः धवयोगे सावकाशः इति परत्वात् 'पुरुषः स्त्रिया' [ नाम्नि नवमः पादः सूत्र ८ ] इति नित्यविधेः नाऽऽबाध्यते ॥ ५ ॥
भ्रातृ-पुत्रअर्थाः स्वमृ-दुहितअथैः । ६ । भ्रातृअर्थः स्वसृअर्थेन, पुत्रअर्थः दुहितृअर्थेन सह सहोक्तौ शेषो भवति ।
भ्राता च स्वसा च भ्रातरौ । सोदर्यश्च स्वसा च सोदयौँ । भ्राता च भगिनी च भ्रातरौ । पुत्रश्च दुहिता च पुत्रौ । सुतश्च दुहिता च सुतौ । पुत्रश्च सुता च पुत्रौ । बहुवचनं विकल्पनिवृत्त्यर्थम् ॥ ६ ॥
'त्यद'आदिः । ७। 'त्यद्'आदिः नाम्ना सह सहोक्तौ शेषः भवति । १ संख्यातवाचि पा० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org