________________
नाम्नि नवमः पादः
[ १२५ 'अर्ध'आदिपूरण-आसन्न-अदूर-अधिक-अध्यधं च । ६३ ।
'अर्थ'पूर्वपदम् पूरणप्रत्ययान्तम् 'आसन्न आदि च संख्यावाचिना नाम्ना सह द्वितीयादिअन्यपदार्थे संख्येये वाच्ये समस्यते, स च समासः बहुव्रीहिः । .
अर्धपञ्चमा विंशतयः येषां ते अर्धपञ्चमविंशाः-नवतिः इत्यर्थः । एवम् अर्धचतुर्थविंशाः । आसन्नदशाः नव एकादश वा । अदूरदशाः । अधिका दश येषां ते अधिकदशाः एकादश आदयः अधिकत्वं दशानाम् एकाद्यपेक्षया। एवम् अधिकविंशाः । अध्यर्धा विंशतिः येषां ते अध्ययविंशाः-त्रिंशत् । एवम् अध्यर्धत्रिंशाः । 'अर्ध'आदिपूरण-आसन्नआदि इति किम् ? संनिकृष्टाः दश येषां ते संनिकृष्टदशानः । अधिका षष्टिः वर्षाणाम् अस्य इत्यादौ बाहुलकात् न भवति । चकारः 'द्वितीयादिअन्यपदार्थे' इत्यस्य अनुकर्षणार्थः तेन उत्तरत्र न अनुवर्तते ॥ ६३ ॥
सुच-वाअर्थ संख्या । ६४ । सुचः अर्थः वारः, वाअर्थः विकल्पः संशयो वा । तत्र संख्यावाचि संख्येये वर्तमानेन संख्यावाचिना नाम्ना सह समस्यते, स च समासः बहुव्रीहिः ।
द्विः दश द्विदशाः । त्रिदशाः । द्वौ वा त्रयो वा द्वित्राः । पञ्चधाः । संख्येये इति किम् ? द्विः विंशतिः गवाम् ।। ६४ ॥
इति श्रीमलयगिरिविरचिते शब्दानुशासने वृत्तौ नाम्नि अष्टमः पादः समाप्तः ॥
नाम्नि नवमः पादः
'च'अर्थ बन्छः सहोक्तौ । १। नाम नाम्ना सह 'च'अर्थे विषये सहोक्तो समस्यते, स च समासः द्वन्द्वः ।
वाक् च त्वक् च वाक्वचम् । धवखदिरपलाशाः । 'च'अर्थे इति किम् ? वीप्सासहोक्तौ मा भूत्-ग्रामः ग्रामः रमगीयः । सहोक्तौ इति 'किम् ? प्लक्षश्च न्यग्रोधश्च दृश्यताम् ॥ १॥
समानाम् अर्थेन एकः शेषः।२। १ किम् ? वक्रश्च कुटिलश्च दृश्यतां द्वन्द्वाप पू० । अत्र पू• आदर्श सवृत्तिकं द्वितीयं सूत्रमेव नष्टम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org