________________
१२४ ] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
एकार्थम् अनेकं च बहुव्रीहिः । ५८ । समानाधिकरणम् एकम् अनेकं च नाम्ना सह द्वितीयादि-अन्यपदार्थे समस्यते, से च समासः बहुव्रीहिसंज्ञः ।
ऊढरथः अनड्वान् । उद्धृतबलियक्षः । उद्धृतौदना स्थाली । चित्रगुः । प्रपतितपर्णः । मत्तबहुमातङ्गं वनम् । बहुलात् पञ्च भुक्तवन्तः अस्य इत्यत्र न भवति । कचिद् अन्यत्र अपि भवति-कण्ठे कृतं येन स कृतकण्ठः । उरसिलोमा ॥ ५८ ॥
'उष्ट्रमुख आदयः । ५९ । एते बहुव्रीहिसमासा निपात्यन्ते ।
उष्ट्रमुखम् इव उष्ट्रस्य इव वा मुखम् अस्य उष्ट्रमुखः । वृषस्कन्धः । पितृस्थानः । 'उष्ट्रमुख'आदयः प्रयोगगम्याः ॥ ५९ ॥
दिशः रूढ्या अन्तराले । ६०। रूढ्या दिग्वाचि नाम दिग्वाचिना नाम्ना सह समस्यते द्वितीयादिअन्यपदार्थे अन्तराले वाच्ये, स च समासः बहुव्रीहिः ।
दक्षिणस्याश्च पूर्वस्याश्च दिशोः यत् अन्तरालं सा दक्षिणपूर्वा दिक्-आग्नेयो । रूढ्या इति किम् ? ऐन्द्रयाश्च कौबेर्याश्च दिशोः यत् अन्तरालम् ॥ ६० ।।
अव्ययम् । ६१ । अव्ययम् नाम्ना सह द्वितीयादिअन्यपदार्थे वाच्ये समस्यते, स च समासः
बहुव्रीहिः ।
उच्चैर्मुखः । सभार्यः । प्रपतितानि पनि यस्य स प्रपर्णः । सह पुत्रः यस्य येन वा सपुत्रः । बहुलाधिकारात्-“सहैव दशभिः पुत्रैर्भार वहति गर्दभी” [ ]। अमा सत्रा साकम् पुत्रः अस्य इत्यत्र न भवति । असमानाधिकरणार्थं वचनम् ॥ ६१ ॥
- संख्यायाः संख्येये । ६२। संख्यावाचिना नाम्ना सह द्वितीयादिअन्यपदार्थे संख्येये वाच्ये समस्यते, स च समासः बहुव्रीहिः ।
उपगताः दश.येषां ते उपदशाः नव एकादश वा । एवम् उपविंशाः । प्रतिपदविहितत्वात् 'प्रमाणी-संख्यात् डः' [ ] इत्यत्र एतत्संप्रत्ययार्थम् इदम् उत्तरं च वचनम् ॥ ६२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org