________________
नाम्नि अष्टमः पादः .
[ १२३ गङ्गामध्यम् । वनाग्रम् । गिर्यन्तः ॥ ५३ ॥
संख्या वंश्येन । ५४। वंशे भवः वंश्यः आद्यपुरुषः तद्वाचिना नाम्ना सह संख्या समस्यते पूर्वपदार्थे वाच्ये, स च समासः अव्ययीभावः । एकमुनि व्याकरणस्य । पूर्वपदार्थे इति किम् ? त्रिमुनिकं व्याकरणम् ॥ ५४ ॥
_ नदीभिः समाहारे । ५५ । संख्यावाचि नदीवाचिभिः सह समस्यते समाहारे गम्यमाने, स च समासः अव्ययीभावः । द्वियमुनम् । सप्तगोदावरम् ॥ ५५ ॥
___ द्वितीयादि-अन्यपदार्थ नाम्नि । ५६ । नाम नदीवाचिना नाम्ना सह समस्यते द्वितीयाद्यन्तस्य अन्यस्य पदार्थे संज्ञायां विषये, स च समासः अव्ययीभावः ।
उन्मत्ता गङ्गा यस्मिन् स उन्मत्तगङ्गम् तूष्णींगङ्गं देशः । नाम्नि इति किम् ? शीघ्रगङ्गं देशः । द्वितीयादि-अन्यपदार्थे इति किम् ? कृष्णवेण्णा ॥ ५६ ॥
मिथः ग्रहणे प्रहरणे च सरूपं युद्धे । ५७ । ____ गृह्णन्ति यस्मिन् तद् .ग्रहणम् । प्रहरति येन तत् प्रहरणम् । मिथः ग्रहणे प्रहरणे च वर्तमानं सरूपम् तत्रैव वर्तमानेन नाम्ना सह द्वितीयाद्यन्यपदार्थे युद्धे वाच्ये समस्यते, स च समासः अव्ययीभावः ।।
केशोश्च केशाश्च मिथः ग्रहणम् अस्मिन् युद्धे केशाकेशि । कचाकचि । दण्डाश्च दण्डाश्च प्रहरणम् अस्मिन् युद्धे दण्डादण्डि । मिथः इति किम् ? केशाः ग्रहणम् अस्मिन् युद्धे । ग्रहणे प्रहरणे च इति किम् ? रथश्च रथश्च मिथः लचनम् अस्मिन् युद्धे । अधिकरणाश्रयणं किम् ? कटस्य च कटस्य च ग्रहणम् अस्मिन् युद्धे । असमासकरणं पृथक्समासप्रतिपत्त्यर्थम् तेन इह न भवति - हस्तश्च हस्तश्च मिथः ग्रहणम् प्रहरणं वा अस्मिन् युद्धे । सरूपम् इति किम् ? केशाश्च कचाश्च मिथः ग्रहणम् अस्मिन् युद्धे । युद्धे इति किम् ? हस्तश्च हस्तश्च मिथः ग्रहणम् अस्मिन् संख्ये ॥ ५७॥
१ हेमचन्द्रसूरिस्तु 'केशेषु केशेषु च मिथः गृहीत्वा कृतं युद्धम्' तथा 'दण्डैश्च दण्डैश्च मिथः प्रहृत्य कृतं युद्धम्' इति विग्रहं करोति । २ अधिकरणे श्रयणम् पू० । अधिकरणश्रयणम् पा० । ३ नावगम्यते स्पष्टतया । ४ हतश्च हतश्च मिथः पा• पू० । ५ सङ्ख्ये पा० । सङ्ख्यं युद्धम् इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org |