________________
१२२ ] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् । रथस्य पश्चात् अनुरथम् । कमे-अनुज्येष्ठम् । योग्यतायाम्-रूपस्य योग्यम् अनुरूपम् । वीप्सायाम्-अर्थम् अर्थम् प्रति प्रत्यर्थम् । अनतिवृत्तौ-यथासूत्रम् । विभक्त्यर्थे–स्त्रीषु अधिस्त्रि । युगपदर्थे-सचक्रं धेहि । सादृश्ये-सशीलम् अनयोः । साकल्ये-सतृणम् अभ्यवहरति । अवसाने-आख्यातम् अन्ते कृत्वा साख्यातम् अधीतम् ॥ ५० ॥
__ बहिः-परि-अप-आङ-अच पञ्चम्या वा । ५१ ।
'बहिर् 'आदीनि नामानि पञ्चम्यन्तेन नाम्ना सह वा समस्यन्ते पूर्वपदार्थे वाच्ये, स च समासः अव्ययीभावसंज्ञः ।
बहिर ग्रामात् बहिर्गामम् । परित्रिगर्तम् । अपत्रिगर्तम् । आग्रामम् । प्रत्यगग्रामम् । प्रतिपदविहितपञ्चमीग्रहणात् इह न भवति-अपगतः शाखायाः अपशाखः । 'वा' ग्रहणं वाक्यार्थम् ॥ ५१ ॥
_ 'तिष्ठदगु'इत्यादयः । ५२। एते अव्ययीभावसमासे निपात्यन्ते यथायोगं पूर्वपदार्थे वाच्ये । ___तिष्ठद्गु । वहद्गु । समभूमि । पूर्वपदार्थे इति किम् ? समा भूमिः समभूमिः । तिष्ठद्गु, आयतीगवम् एते काले वर्तन्ते । खलेयवम् खलेबुसम् लूनयवम् लूयमानयवम् पूनयवम् पूयमानयवम् संहृतयवम् संहृतबुसम् एते प्रथमान्ताः काले देशे वा । अल्पार्थे प्रतिना-सूपप्रति । शाकप्रति । परिणा अक्ष-शलाका-संख्यम् द्यूते अन्यथावृत्तौअक्षेण शलाकया वा तथावृत्तं यथा जयः-अक्षपरि शलाकापरि । एकपरि । द्विपरि । अभि-प्रती लक्षणेन आभिमुख्ये-दीपम् अभि अभिदीपम् प्रतिदीपम् शलाभाः पतन्ति । दैर्ये अनुः-गङ्गाम् अनु अनुगङ्गं वाणारसी। समीपे च-वनस्य अनु अनुवनम् । यावत् अवधारणे-यावदमत्रं अतिथीन् भोजय । अत्र नितिपरिमाणैः अमत्रैः अतिथिपरिमाणम् अवधार्यते । अवधारणात् अन्यत्र न भवति-यावद् दत्तं तावद् भुक्तम् नावधारये किम् इयद् मया भुक्तम् इति । 'द्विदण्डि'-आदिः-प्रमृगम् । प्ररथम् । समं भूमिः समभूमि । समपदाति । अधोनाभम् । सुषमम् । विषमम् इत्यादि ॥ ५२ ॥
पारे-मध्ये-अग्रे-अन्तः षष्ठया वा । ५३ । 'पार'आदीनि नामानि षष्ठ्यन्तेन सह समस्यन्ते पूर्वपदार्थे वाच्ये, स च समासः अव्ययीभावः, तद्योगे निर्देशादेव 'पार'आदीनाम् एकारान्तत्वम् । . . पारेगङ्गम् । मध्येगङ्गम् । अग्रेवणम् । गिरेः अन्तः अन्तर्गिरि । पक्षे गङ्गापारम् ।
१ ख्यातम् अभिधानम् पा० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org