________________
नाम्नि अष्टमः पादः
[ १२१ कर्मधारयसंज्ञः अनाम्नि च द्विगुसंज्ञः ।
संज्ञायाम्-पञ्चाम्राः । दशार्हाः । तद्धिते-पञ्चकपालः ओदनः । उत्तरपदे-पञ्चगवधनः । समाहारे-पञ्चपूली। समाहारे च इति किम् ? अष्टौ प्रवचनमातरः । 'एक'पी' इति ‘एकस्य' अपि अनेकपर्यायोपनिपातात अनेकत्वसंभवे समाहारोपपत्तिः । चकारः कर्मधारय-तत्पुरुषसंज्ञासमुच्चयार्थः । अनाम्नि इति किम् ? सप्तर्षीणाम् इदं साप्तर्षम् अत्र द्विगुत्वाभावात् 'द्विगोः अलुचः अनपत्ये' तद्धिते पा० ९ सूत्र १३८] श्लुग् न भवति । 'अयम्' इति ग्रहणम् 'द्विगुश्च'इत्यस्य उत्तरत्र अनुवृत्त्यर्थम् ।। ४८ ॥
'मयूरव्यंसक'आदयः । ४९ । एते तत्पुरुषसमासा निपात्यन्ते ।
लुप्तौ अंसौ अस्य इति व्यंसः तत्तुल्यः व्यसकः, व्यसयति छलयति वा व्यंसकः, व्यंसकः मयूरः मयूरव्यंसकः । छात्रव्यसकः । कम्बोजमुण्डः । अत्र विशेष्यं पूर्वम् । उदक् च अवाक् च उच्चावचम् । उच्चैश्च नीचैश्च उच्चनीचम् । न किंचन अकिंचनम् । आख्यातम् आख्यातेन सातत्ये-अश्नीत पिबत इति यस्यां वर्तते सा अश्नीतपिबता । क्तं 'नञ्'आदिभिन्नैः-कृताकृतम् । विन्नावित्तम् । सेट् न अनिटा-क्लिशितमक्लिष्टम् । 'गतप्रत्यागत'आदयः-गतं च प्रत्यागतं च गतप्रत्यागतम् । महान् क्रयः अल्पा क्रयिका-क्रयाक्रयिका । पुटापुटिका । फलाफलिका । 'शाकपार्थिव आदयः-शाकभोजी पार्थिवः शाकपार्थिवः । कुतपवासाः सौश्रुतः कुतपसौश्रुतः इत्यादि । आकृतिगणत्वात् पादाभ्यां हियते पादहारकः इत्यादि सिद्धम् ॥ ४९ ॥ 'शब्दप्रथा आदौ अव्ययम् पूर्वपदार्थे नित्यम् अव्ययीभावः। ५०।
'शब्दप्रथा' आदी अर्थे वर्तमानम् अव्ययम् नाम्ना सह पूर्वपदार्थे वाच्ये नित्यं समस्यते, स च समासः अव्ययीभावसंज्ञः ।
शब्दस्य प्रथा प्रकर्षेण ख्यातिः-इतिशाकटायनम् 'शाकटायन'शब्दः लोकेषु सुष्टु प्रथते इत्यर्थः । ऋद्वेः आधिक्ये-मद्रागां समृद्धिः सुमद्रम् । ऋद्रेः विगमे-दुर्यवनम् । अर्थाभावे-मक्षिकाणाम् अभावः निर्मक्षिकम् । बहुलाधिकारात् धर्माभावे न भवतिअब्राह्मणः । अतीतत्वे-शीतस्य अत्ययः अतिशीतम् । वर्तमाने काले उपभोगादेः प्रतिषेधेअतिकम्बलम् । समीपे-उपकुम्भम् । अन्यूनत्वे-वृत्तस्य अन्यूनत्वम् सुवृत्तम् । पश्चादर्थे
१ अपूपवत् पूपशब्दोऽपि बोध्यः "अथ पिष्टकः पूपः अपूपः" हैम-अभिधानचि. का. ३ श्लो० ६२ । २ उच्चावच्चम् पा० पू० ।
१६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org