________________
१२० ] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
'चतुष्पाद्'जातिवाचि नाम गर्भिणीशब्देन सह समस्यते ।
गोगर्भिणी। चतुष्पाद् इति किम् ? ब्राह्मणी गर्भिणी। जातेः इति किम् ? कालाक्षी गर्भिगी ॥ ४३ ॥
कतर-कतमौ जातिप्रश्ने । ४४ । एतौ एकार्थी नाम्ना सह समस्येते जातिप्रश्ने गम्यमाने ।
कतरः गार्ग्यः कतरगार्ग्यः । कतमगार्यः । जातिप्रश्ने इति किम् ? कतरः शुक्लः । कतमः गन्ता । जातिप्रश्ने एव इति नियमार्थं वचनम् ॥ ४४ ।।
जरत्-वलिन-खलति-पलितैः युवा । ४५। 'युवन्'शब्दः 'जरत्'आदिभिः सह समस्यते ।
युवजरन् । युववलिनः । युवखलतिः । युवपलितः । 'जरत्'आदीनां पूर्वत्वप्रतिषेधार्थ वचनम् ॥ ४५ ॥
कुमारः 'श्रमणा'आदिना । ४६ । 'कुमार' इति नाम एकार्थम् ‘श्रमणा'आदिभिः सह समस्यते ।
कुमारी श्रमणा कुमारश्रम गा । कुमारतापसी । 'कुमार'शब्दस्य पूर्वत्वार्थ वचनम् । श्रमगा तापसी गर्भिगी बन्धकी दासी अन्यायक अभिरूपक मृदु पण्डित कुशल चपल निपुग इति 'श्रमणा'आदिः ॥ ४६ ।।
दिक्-अधिकं संज्ञा-तद्धित-उत्तरपदे । ४७ । दिग्वाचि अधिकम् इति एतच्च नाम एकार्थम् नाम्ना सह समस्यते, संज्ञायाम् तद्धितप्रत्यये विषयभूते उत्तरपदे च परे ।
दक्षिणाः कोशलाः दक्षिगकोशलाः । दक्षिणपाञ्चालाः । तद्धिते-दक्षिणस्यां शालायां भवः दाक्षिगशालः । उत्तरपदे-दक्षिणशालाप्रियः । अधिकगवधनः । नित्यः अयं समासः । न हि त्रयागाम् एकार्थीभावे सति द्वयोर्विग्रहवाक्यसंभवः । 'संज्ञा आदिग्रहणं किम् ? उत्तराः वृक्षाः । विशेषगं व्यभिचारि' [ नाम्नि अष्टमः पादः सूत्र ३२] इत्येव सिद्धौ नियमार्थं वचनम् ।। ४७ ॥
संख्या समाहारे च द्विगुश्च अनाम्नि अयम् । ४८ ।
अनेकस्य कथंचित् एकत्वं समाहारः । संख्यावाचि नाम एकार्थम् नाम्ना सह समस्यते संज्ञायाम् तद्धिते उत्तरपदे समाहारे च वाच्ये, स च समासः तत्पुरुषसंज्ञः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org