________________
नाम्नि अष्टमः पादः
इति किम् ? घटे कृतम् | अह्नि कृतम् । अक्षेपार्थं वचनम् ॥ २९ ॥ 'काक' आदिभिश्च क्षेपे । ३० ।
सप्तम्यन्तं काकप्रकारैः क्तान्तेन च सह समस्यते क्षेपे गम्यमाने । तीर्थकाकः । तीर्थकुकुटः - अनवस्थितः एवम् उच्यते । भस्मनि हुतम् - निष्फलं कृतम् इत्यर्थः । सर्वत्र उपमानेन क्षेपः । क्षेपे इति किम् ? तीर्थे काकः तिष्ठति ॥ ३० ॥ 'पात्रेसमित' इत्यादयः । ३१ ।
एते सप्तमीतत्पुरुषाः निपात्यन्ते ।
पात्रेसमिताः। पात्रेबहुलाः । ' पात्रे समिताः न अन्यत्रैव कार्ये' इति अवधारणात् क्षेपः । उदुम्बरमशकः । कूपकच्छपः । उदपानमण्डूकः । अत्र उपमायाः क्षेपः । मातरि - पुरुष:, अत्र प्रतिषिद्धसेवनेन । पिण्डीशूरः । गेहेनद गेहेन्यालः गर्भे तृप्तः गोठेपण्डितः कर्णेटिरिटिरिः इत्यादिनिपातनात् सप्तम्या अलुक् । 'इति' करणात् पदान्तरेण असमासः ॥ ३१ ॥ विशेषणं व्यभिचारि विशेष्येण एकार्थ कर्मधारयश्च । ३२ ।
समानाधिकरणं व्यभिचारि विशेषगवाचि नाम विशेष्यवाचिनाम्ना सह समस्यते, स च समासः तत्पुरुषसंज्ञः कर्मधारयसंज्ञश्च ।
नीलं च तत् उत्पलं च नीलोत्पलम् । कृष्णतिलकाः । खञ्जकुण्टः । कुण्टखञ्जः । ( अश्रेणयः श्रेणयः कृताः ? ) 'नीलोत्पल' आदिषु 'उत्पल' आदिजातिशब्दः विशेष्यतयैव नियतः । ‘खञ्जकुण्ट' आदौ अनियतः । व्यभिचारि इति किम् ? तक्षकः सर्पः । बहुलाधिकारात् कचिद् अञ्यभिचारेऽपि भवति - पृथ्वीद्रव्यम् । आम्रवृक्षः । मेरुपर्वतः । संज्ञायां नित्यः - कृष्णसर्पः । लोहितशालिः । एकार्थम् इति किम् ? वृद्धस्य उक्षा वृद्धोशा । 'कर्मचारयश्च' इति अधिकारः 'द्विगुश्व अनाम्नि अयम्' [ नाम्नि अष्टमः पादः सूत्र ४८ ] इति यावत् ॥ ३२ ॥
पूर्वकाल - एक सर्व- जरत्-पुराण- नव- केवलम् । ३३ ।
पूर्वकालः यस्य तद्वाचि, एकादीनि च नामानि एकार्थानि नाम्ना सह समस्यन्ते, स च समासः तत्पुरुषसंज्ञः कर्मधारयश्च ।
पूर्वकालः अपरकालेन - पूर्वं स्नातः पश्चाद् अनुलिप्तः स्नातानुलिप्तः । एकशुक्लः । १ एतत् ( ) चिह्नान्तर्गतम् नात्र उपयोगि । २ नीलोत्पलादिषु उत्पलादिषु उत्पलादिजाति० पा० ।
Jain Education International
[ ११७
For Private & Personal Use Only
www.jainelibrary.org