________________
११८ ] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् । सर्वशुक्लः । जरद्गवः । पुराणवैयाकरणः । नवकम्बलः । केवलजरत् । एकार्थम् इति किम् ? स्नात्वा लिप्तः । पूर्वपदत्वव्यवस्थार्थ वचनम् ॥ ३३ ॥
निन्द्यम् अ'पाप'आद्यैः कुत्सनैः । ३४ । निन्द्यवाचि नाम 'पाप'आदिवर्जितैः कुत्साहेतुभिः समस्यते ।
खसूची-निष्प्रभः-वैयाकरणः वैयाकरणखसूची । मीमांसकदुर्दुरूढः । निन्द्यम् इति किम् ? वैयाकरणश्चौरः, प्रत्यासत्तेः शब्दप्रवृत्तिनिमित्तनिन्दायाम् अयं समासः न च चौरत्वेन वैयाकरणत्वं निन्द्यते किन्तु तदाश्रयः द्रव्यम् वैयाकरणवं तु तदुपलक्षणमात्रम् । अपाप'आद्यैः इति किम् ? पापकुलालः । अगकनापितः । हतविधिः । विशेष्यपूर्वनिपातार्थं वचनम् ॥ ३४ ॥ पूर्व-अपर-प्रथम-चरम-जघन्य-समान-मध्य-मध्यम-वीरम् । ३५ ।
एतानि एकार्थानि नाम्ना सह समस्यन्ते ।
पूर्वपुरुषः । अपरपुरुषः । प्रथमपुरुषः । चरमपुरुषः । जघन्यपुरुषः । समानपुरुषः । मध्यपुरुषः । मध्यमपुरुषः । वीरपुरुषः । 'विशेष गम्' [नाम्नि अष्ट० पा० सूत्र ३२] इत्यनेनैव एकवीरैः । पूर्वपदत्यव्यवस्थार्थं वचनम् । पूर्वजरन् । वीरपूर्वः ॥ ३५ ॥
गौणः तद्गुणेन । ३६ । गुणात् विषयान्तरम् आगतः गौणः । तद्वाचि नाम येन विषयान्तरम् आगतः तद्गुणवाचिना नाम्ना सह समस्यते ।
शस्त्री इव श्यामा शस्त्रीश्यामा । सिंहशूरः । तद्गुणेन इति किम् ? अग्निर्माणवकः । गौणः तद्गुणेन एव इति नियमार्थ वचनम् ॥ ३६ ॥
व्याघ्रादिभिः गौणैः तदगुणानुक्तौ । ३७ । एकार्थं नाम 'व्याघ्र'आदिभिर्गौणैः सह समस्यते, येन गुणेन गौणत्वं तद्गुणानुक्तौ ।
पुरुषः व्याघ्र इव पुरुषव्याघ्रः । पुरुषसिंहः । गौणैः इति किम् ? वृषभः सिंह इव, 'वृषभ'शब्दस्य परनिपातो न भवति । तद्गुणानुक्तौ इति किम् ? पुरुषव्याघ्रः शूरः इति मा भूत् । व्याघ्र सिंह वृषभ वराह हस्तिन् कुञ्जर रुरु पुण्डरीक इत्यादि । आकृतिगणत्वात् वाग्वज्रः मुखपद्मम् इत्यादि सिद्धम् ।। ३७ ।।
सत्-महत्-परम-उत्तम-उत्कृष्ट पूजायाम् । ३८ । १ आचार्यहेमचन्द्रस्तु एनं प्रयोग ३ । १ । १०३ । सूत्रे बहुलाधिकारात् साधयति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org