________________
११६ ] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् । कन्यारूपम् । चन्दनगन्धः । स्तनस्पर्शः । गोविंशतिः । गोसहस्रम् ॥ २५ ॥ 'तृप्त'अर्थ-अव्यय-बुद्धि-इच्छा-पूजा-आधारक्त-पूरण
शत-आनशा । २६ । एतैः सह षष्ठी न समस्यते ।
फलानां तृप्तः । फलानां सुहितः । सक्तूनां पूर्णः । अव्यय-राज्ञः साक्षात् । "अव्ययीभावस्य अपि अन्वर्थाश्रयणात् अव्ययत्वात् अयं प्रतिषेधः-देवदत्तस्य उपकुम्भम्" [ ] इति एके । बुद्धि-इच्छा-पूजा-आधारक्ताः-राज्ञां बुद्धः । राज्ञाम् इष्टः । राज्ञां पूजितः । इदम् एषां शयितम् । तीर्थकृतां षोडशः शान्तिः । ओदनस्य अपचन् । ओदनस्य पचमानः ॥ २६ ॥
सप्तमी । २७ । सप्तम्यन्तं नाम नाम्ना सह समस्यते ।
अक्षेषु प्रसक्तः शौण्ड इव अक्षशौण्डः । वृत्तौ प्रसक्तिक्रियाया अन्तर्भावः । समरे सिंह इव समरसिंहः । ग्रामवासः । अरण्येतिलकाः ॥ २७ ॥
कृत्येन आवश्यके । २८ । ___ सप्तम्यन्तं कृत्यान्तेन सह समस्यते अवश्यंभावे गम्यमाने । अयमपि नित्यः समासः वाक्येन अवश्यंभावस्य आगमनत्वात् ।
मासदेयम् । पूर्वाह्नगेयम् । संवत्सरकर्तव्यम् । आवश्यक इति किम् ? मासे देया भिक्षा ॥ २८ ॥
तत्र-अहो-रात्रांशं क्तेन । २९ । 'तत्र' इति एतत् , अहरवयववाचि रात्र्यवयववाचि च सप्तम्यन्तं क्तान्तेन सह समस्यते ।
तत्रकृतम् । पूर्वाह्न कृतम् पूर्वाह्नकृतम् । अपराह्ने सेवितम् अपराह्नसेवितम् । पूर्वरात्रे कृतम् पूर्वरात्रकृतम् । अपररात्रे सेवितम् अपररात्रसेवितम् । तत्र-अहो-रात्रांशम्
१" अयमपि नित्यसमासः यतो न समासे 'अवश्यं'शब्दस्य प्रयोगः इति न्यासः ' न्याससारोद्धारे श्रीकनकप्रभसूरय-३।१।९५ सिद्ध० । २ 'आगमनत्वात्' इत्यस्य स्थाने 'गमनस्वात' इति उचितम् । गमनत्वात्-ज्ञानत्वात् इत्यर्थः । ३ " संवत्सरकर्तव्यम् इति तु बहुलाधिकारात"-३११९५। सिद्ध० । आचार्यहेमचन्द्रस्तु कृतः-कृदन्तस्य-य'प्रत्ययमेवात्र 'देय इत्यादिषु प्रयुज्यमानं मन्यते नान्यप्रत्यययान् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org