________________
नाम्नि अष्टमः पादः
[११५ चतुर्थ्यर्थन अर्थशब्देन सह चतुर्थ्यन्तं समस्यते ।
पित्रे इदम् पित्रथं पयः । नित्यसमासः अयम् , वाक्ये हि चतुथ्या तदथस्य उक्तत्वात् अर्थशब्दस्य अप्रयोगः, समासस्तु वचनाद् भवति ॥ २० ॥
प्रकृत्या । २१ ।। प्रकृतिः परिणामद्रव्यम् तद्वाचिना नाम्ना सह अर्थात् विकृतिवाचि नाम समस्यते ।
कुण्डलाय हिरण्यम् कुण्डलहिरण्यम् । यूपाय दारु यूपदारु । प्रकृत्या इति किम् ? रन्धनाय स्थाली ॥ २१ ॥
चतुर्त्या अलम् । २२ । 'अलम्' इति नाम चतुयन्तेन नाम्ना सह समस्यते । अलं जीविकाय अलंजीविकः । चतुर्थ्या इति किम् ? अलम् अतिप्रसङ्गेन ॥२२॥
पञ्चमी । २३ । पञ्चम्यन्तं नाम्ना सह समस्यते ।
वृकाद् भयम् वृकभयम् । स्तोकात् मुक्तः , देशान्तरा [त् आ] गतः, प्रासादात् पतितः इत्यादी अनभिधानात् न भवति ।। २३ ।।
. शेषे षष्ठी अयत्नजे । २४ । शेषे या षष्ठी तदन्तम् नाम्ना सह समस्यते, न चेत् स शेषः यत्नात् जातः स्यात् ।
राज्ञः पुरुषः राजपुरुषः । भिक्षुपात्रम् । 'देवदत्तस्य गुरुकुलम्' इत्यादौ सापेक्षस्यापि गमकत्वात् समासः। शेष इति किम् ? गवां कृष्णा संपन्नक्षीरा.। 'पण्डितोक्तिः' 'गुरुपूजकः' इत्यादौ शेषषष्ठीवत् सिद्धम् , बहुलाधिकारात् वा कर्म-कोरपि कृदन्तेन सह समस्यते । अभिधानवशाच्च कर्तरि षष्ट्या वुअन्तेन 'याजक'आदिवर्जं कर्मणि तृच्-वुभ्यां च न समासः--भवतः आसिका । अपां स्रष्टा । मोदकस्य भोजकः । अत्र अपि शेषविवक्षायां समासः । अयत्नजे इति किम् ? सर्पिषः नाथनम् ॥ २४ ॥
न अस्वस्थगुणैः । २५ । ये गुणाः स्वात्मनि एव अवतिष्ठन्ते न द्रव्ये ते स्वस्थाः तत्प्रतिषेधेन अस्वस्थाः, तद्गुणवाचिभिः सह षष्ठयन्तं न समस्यते ।
पटस्य शुक्लः । गुडस्य मधुरः । काकस्य कार्यम् । बलांकायाः शौक्लयम् । अत्र कार्यादेर्गुणस्य कृष्णः काकः इत्यादौ अस्वास्थ्यम् उपलभ्यते । अस्वस्थगुणैः इति किम् ?
१ चतुर्थ्यन्तम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org