SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ ११४ ] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् । 'खट्वा' इति द्वितीयान्तं क्तान्तेन सह समस्यते क्षेपे गम्यमाने । क्षेपः समासार्थः न वाक्येन गम्यते इति नित्यसमासः । ... खट्वाऽऽरूढो जाल्मः-उत्पथप्रस्थित एवम् उच्यते । क्षेपे इति किम् ? खट्वाम् आरूढः ॥ १३ ॥ कालः । १४। कालवाचि नाम द्वितीयान्तं तान्तेन सह समस्यते । अहरतिसृताः । रात्र्यारूढाः षण्मुहूर्ताः । अव्याप्त्यर्थ वचनम् ॥ १४ ॥ - व्याप्तौ । १५। व्याप्तौ या द्वितीया तदन्तं कालवाचि नाम व्यापकवाचिना नाम्ना सह समस्यते । मुहूर्तसुखम् । दिनगुडः । काल इति किम् ? क्रोशं कुटिला नदी ॥ १५ ॥ 'श्रित आदिभिः । १६ । द्वितीयान्तं 'श्रित'आदिभिः सह समस्यते । धर्मश्रितः । शिवगतः । श्रित गत अतीत पतित प्राप्त आपन्न गमिन् आगामिन् इत्यादि । आकृतिगणत्वात् 'तत्त्वबुभुत्सुः' इत्यादि सिद्धम् ॥ १६ ॥ प्राप्त-आपन्नं तया अत् च । १७। _ एतौ द्वितीयान्तेन समस्येते तद्योगे च अनयोः अकार अन्तादेशः । । प्राप्ता जीविकाम् प्राप्तजीविका । आपन्नजीविका । प्राप्तजीविकः । श्रितादित्वात् अनयोः पूर्वेण परत्वे प्राप्ते पूर्वत्वार्थ वचनम् ॥ १७ ॥ तृतीया । १८ । तृतीयान्तं नाम्ना सह समस्यते । गिरिणा काणः गिरिकागः । आत्मकृतम् । मासपूर्वः । मासोनः । श्वलेह्यः कूपः । 'अन्लेन उषितः' 'दाग लूनवान्' 'श्वभिः लेढव्यः' इत्यादौ अनभिधानात् न भवति ॥ १८ ॥ चतुर्थी 'हित आदिभिः । १९ । चतुर्थ्यन्तं हितादिभिः सह समस्यते । प्रजाहितम् । कुबेरबलिः । हित बलि सुख रक्षित इत्यादि ॥ १९ ॥ तदर्थार्थेन । २०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy