SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ नामिन अष्टमः पादः [ ११३ समे अंशे वर्तमानम् 'अर्धम्' इति नाम अंशिवाचिना नाम्ना सह समस्यते, न चेत् सः अंशी भिन्नः । अर्धं पिष्पल्याः अर्धपिप्पली । अर्धखट्वा । समे अंशे इति किम् ? ग्रामार्धः । अभिन्नेन इति किम् ? अर्धं पिप्पलीनाम् । अर्धपिप्पल्यः इति एकशेषः, अर्धप्रचयो हि अयम् , पिप्पलीप्रचयोक्ते एकवचनं स्यात् ।। ८ ॥ पूर्व-अपर-अधर-उत्तरम् । १। एते अंशिवाचिना नाम्ना सह समस्यन्ते. न चेत् सः अंशी भिन्नः । पूर्व कायस्य पूर्वकायः । अपरकायः । अधरकायः । उत्तरकायः । अभिन्नेन इति किम् ? पूर्वः छात्राणाम् । प्रसज्यप्रतिषेधात् इह न भवति-पूर्वं पाणिपादस्य, समाहारस्य एकत्वेऽपि पाणिः पादः इति हि भिन्नम् ।। ९ ॥ 'साया'आदयः । १०। एते अशितत्पुरुषाः साधवः वेदितव्याः । सायम् अह्नः सायाह्नः । मध्याह्नः । मध्यंदिनम् । 'साया'आदयः प्रयोगगम्याः ॥ १० ॥ नञ् । ११ । 'नञ्' नाम नाम्ना सह समस्यते ।। अगौः । अनेकः । असूर्यपश्या राजदाराः। निवर्त्यमानतद्भावः उत्तरार्थः पर्युदासनञ्समासार्थः तत्र विशेषणसमासेन एव सिद्धम् । प्रसज्यप्रतिषेधे तु नञ् क्रियापदसंबन्धी उत्तरपदं वाक्यवत् स्वार्थ एव तत्र अयोगेऽपि वचनात् यथाभिधानं बाहुलकात् समासः ॥ ११ ॥ स्वयं-सामी क्तेन । १२ । एतौ क्तान्तेन सह समस्येते ।। स्वयंधौतौ पादौ । सामिकृतम् । समासे समुदायात् तद्धितोत्पत्तिः-स्वायंधौतम् । क्तेन इति किम् ? स्वयं कृत्वा ॥ १२ ॥ 'खट्वा द्वितीया क्षेपे । १३ । १ पिप्प पू० । २ “समे अर्धम' २।१।२६ इति शाकटायनीयसूत्रानुसारि-अमोघवृत्ती "अर्धपिप्पल्यः इति एकशेषे अर्धप्रचयोऽयम् , पिप्पलीप्रचये हि एकवचनं स्यात्" इति । ३ उत्तरपदार्थः । ४ कृतम् । समुदायात् पा० । १५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy