________________
११२ ]
आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
स्वकृता पश्चम्या उक्तम् । ४। स्वाश्रयः कृत् स्वकृत् , तदन्तेन नाम्ना सह पञ्चम्या उक्तं नाम समस्यते ।
'कर्मणः अण्' [ कृत् द्वितीयपादे सू० १५ ]कुम्भकारः । स्वग्रहणं किम् ? कुम्भं कृत्वा । पञ्चम्या उक्तम् इति किम् ? खलु कृत्वा ॥ ४ ॥
तृतीयया वा । ५। तृतीयया उक्तं नाम स्वकृदन्तेन नाम्ना सह समस्यते ।
'तृतीयया उपदंशः' [ कृत् षष्ठः पादः सूत्र ३९ ] मूलकेन उपदंशम् मूलकोपदंशं भुङ्क्ते । 'वा'ग्रहणं वाक्यार्थम् अत एव 'वा'ग्रहणात् प्राग् नित्यसमासः ॥ ५ ॥
___ कालः द्विगौ च मेयैः । ६। काल: मुहूर्तआदिः । तद्वाचिनः नाम केवलम् द्विगौ च विषये वर्तमानम् मेयवाचिनाम्ना सह समस्यते ।
मासः जातस्य मासजातः, मासजातौ । स्त्री मासजाता । द्वे अहनी जातस्य चह्नजातः । विग्रहे यद्यपि कालस्य विशेषणं जातादि तथापि स्वभावात् समासः जातादिप्रधानः तेन समासस्य लिङ्गम् संख्या च तैदीया भवति । जातादेः मेयत्वम् जन्मादेः प्रभृति तत्संबन्धा[द्धा]दित्यगतिपरिच्छेदात् । द्विगुग्रहणं त्रिपदसमासार्थम् अन्यथा 'नाम नाम्ना' [ नाम्नि अष्टमः पादः सूत्र १] इति अनुवृत्तेः द्वयोः एव स्यात् । षष्ठीसमासापवादो योगः । एवम् उत्तरे अपि ॥ ६॥
द्वि-त्रि-चतुः पूरणम् अभिन्न अंशिना वा । ७। द्वि-त्रि-चतुःशब्दाः पूरणप्रत्ययान्ताः अंशवाचिनः अंशिवाचिना नाम्ना सह समस्यन्ते वा, न चेत् सः अंशी भिन्नः ।
द्वितीयं भिक्षायाः द्वितीयभिक्षा, भिक्षाद्वितीयम् । तृतीयभिक्षा, भिक्षातृतीयम् । चतुर्थभिक्षा, भिक्षाचतुर्थम् । 'वा' अधिकारे तु वर्तमाने पुनर् इह 'वा'ग्रहणं पक्षे षष्ठीसमासपूरणार्थम् तेन 'पूरण-' [नाम्नि अष्टमः पादः सू० २६ ] इति षष्ठीसमासप्रतिषेधो न भवति । पूरणम् इति किम् ? द्वौ भिक्षायाः । अंशिना इति किम् ? द्वितीयं भिक्षायाः भिक्षुकस्य, भिक्षुकेण न समासः । अभिन्नेन इति किम् ? द्वितीयं भिक्षाणाम् ।। ७ ॥
समे अंशे अर्धम् । ८ ।
१ 'जात'आदिशब्दसंबन्धिनी ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org