________________
नाम्नि अष्टमः पादः नाम नाम्ना ऐकायें समासः बहुलम् । १। ऐकाक्षं सामर्थ्यविशेषः, तस्मिन् सति नाम्ना सह समासो भवति बहुलम् ।।
विस्पष्टं पटुः विस्पष्टपटुः । व्यक्तलवणः । नाम इति किम् ? चरन्ति गावः धनम् अस्य । नाम्ना इति किम् ? चैत्रः पचति । बहुलवचनात् कचित् अनाम अपि सह समस्यते- भात्यर्क नभः । अनुव्यचलत् । अधिकारः अयम् 'च'अर्थे द्वन्द्वः सहोक्तौ' [ नाम्नि नवमः पादः सूत्र १ ] इति यावत् ॥ १ ॥
गति-कु-दुर्-सु-अति-आङ् तत्पुरुषः।२। गतिसंज्ञम् कु-दुर्-सु-अति-आङश्च नाम्ना सह समस्यन्ते, स च समासः तत्पुरुषसंज्ञः ।
पटपटाकृत्य । कु-पापः पुरुषः कुपुरुषः । निन्दितः पुरुषः दुष्पुरुषः । शोभन: पुरुषः सुपुरुषः । एवम् अतिपुरुषः । 'सु'साहचर्यात् 'अतिः'इह पूजायां सह समस्यते, इह न भवति-अतिसिक्त्वा, अत्र अतिक्रमे अति । “अत्र अपि समासः" [ ] इति एके । ईषत् पिङ्गलः आपिङ्गलः । दुः-सु-अति-आङ्ग्रणम् अगत्यर्थम् , गतित्वे हि 'गति-' [ नाम्नि अष्टमः पादः सूत्र २ ] इत्येव सिद्धम् । निन्दिताः पुरुषा यस्य स 'दुष्पुरुषकः' इत्यादौ अन्यपदार्थादिविषये परत्वात् 'बहुव्रीहि'आदिसंज्ञा । 'तत्पुरुषः'इति अधिकारः 'मयूरव्यंसक'-इत्यादयः' [नाम्नि अष्टमः पादः सूत्र ४९ ] इति यावत् ॥२॥
'गत'आदिषु 'प्र'आद्यः । ३।। 'प्र'आदयः 'गत'आदिषु अर्थेषु वर्तमानाः नाम्ना सह समस्यन्ते, स च समासः तत्पुरुषसंज्ञः ।
प्रगतः आचार्यः प्राचार्यः । प्रकृष्टः वीरः प्रवीरः । संगतः अर्थः समर्थः । अतिक्रान्तः खट्वाम् अतिखट्वः । उद्गतः वेलाम् उद्वेलः । अवक्रुष्टः कोकिलया अवकोकिलः । अवहीनं तमसा, अवहीनं तमः वा अवतमसम् । संनद्धः वर्मणा संवर्मा । परिग्लानः अध्ययनाय पर्यध्ययनः । उद्युक्तः संग्रामाय उत्संग्रामः। निर्गतः कौशाम्ब्याः निष्कौशाम्बिः । अपगतः शाखायाः अपशाखः । अन्तर्गतः अङ्गुलः अन्तरङ्गुलः नखः । प्रतिष्ठितम् उरसि प्रत्युरसम् । 'गत'आदिषु इति किम् ? अतिसिक्त्वा ॥ ३॥
१ तत्पुरुषः तत्पुरुषसंज्ञः पा० । २ धर्मणा संधर्मा पा० पू० । .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org