________________
११० ] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
ऋते धर्मात् कुतः सुखम् ? । न हि अङ्गं विक्रियते रोगम् ऋते ।। ६१ ॥
- पृथक-नाना तृतीया च । ६२ । 'पृथक्-नाना'शब्दाभ्यां युक्तात् नाम्नः तृतीया पञ्चमी च भवति । पृथक् चैत्रेण । पृथक् चैत्रात् । नाना चैत्रेण । नाना चैत्रात् ॥ ६२ ॥
विना इमाः तिस्रः। ६३ । 'विना'शब्दयुक्तात् अप्रधानात् नाम्नः इमाः तिस्रः तृतीया-पञ्चमी-द्वितीया विभक्तयो भवन्ति ।
विना वातेन । विना वातात् । विना वातम् । तिस्रः इति किम् ? षष्ठी मा भूत् ॥ ६३ ॥
सप्तमी च असत्त्वाऽऽरादर्थात् । ६४। असत्त्वभूतदूर-अन्तिकवाचिनः नाम्नः सतमी पूर्वोक्ताश्च तिस्रो विभक्तयो भवन्ति ।
दूरे ग्रामस्य । दूरेण ग्रामस्य । दूरात् ग्रामस्य । दूरं ग्रामस्य । अन्तिके ग्रामस्य । अन्तिकेन ग्रामस्य । अन्तिकात् ग्रामस्य । अन्तिकं ग्रामस्य । असत्व-इति किम् ? दूराय पथे देहि । 'आरात्'अर्थग्रहणं किम् ? स्पष्टं जल्पति ॥ ६४ ॥
हेतौ हेत्वथैः तृतीयाद्याः। ६५ । हेतुः निमित्तम् कारणम् इति पर्यायाः । हेल्वथैः शब्दैः युक्तात् हेतौ वर्तमानात् नाम्नः 'तृतीया'आदयो विभक्तयः भवन्ति ।
__धनेन हेतुना वसति । धनाय हेतवे वसति । धनात् हेतोर्वसति । धनस्य हेतोवसति । धने हेतौ वसति । एवं धनेन निमित्तेन वसति । धनेन कारणेन । इत्यादि ॥ ६५॥
सर्वादेः सर्वाः। ६६ । सर्वादेः हेत्वथैः युक्तात् सर्वा विभक्तयो भवन्ति ।
को हेतुः वसति । कं हेतुं वसति । केन हेतुना वसति । कस्मै हेतवे वसति । कस्मात् हेतोः वसति । कस्य हेतोः वसति । कस्मिन् हेतौ वसति । एवम् किं प्रयोजनम् , किं निमित्तम् वसति । इत्यादि ।। ६६ ॥ । इति श्रीमलयगिरिविरचिते शब्दानुशासने वृत्तौ नाम्नि सप्तमः पादः समाप्तः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org