________________
नाम्नि सप्तमः पादः क्त-क्तवतु-आरु-रु-शत-आन-इष्णु-शान-इ-क्नु-उ-ष्णुक्-आलु-तृनः॥५६॥
एषां कर्मणि कर्तरि च वर्तमानात् अप्रधानात् नाम्नः षष्ठी न भवति ।
क्त-कृतः कटः चैत्रेण । क्तवतु-कटं कृतवान् । आरे-गुरून् वन्दारुः । रुधारुर्वत्सरो मातरम् । शतृ-कटं कुर्वन् । अधीयन् व्याकरणम् । आनश्-कटं कुर्वाणः । इष्णु:-कन्याम् अलंकरिष्णुः । शान-लोकं पवमानः । इ-दधिः चित्तम् । क्नु–मलं क्षिपणुः । उ-ओदनं बुभुक्षुः । ष्णुक्-रिपून् जिष्णुः । आलुः-श्रद्धालुः तत्वम् । तृन्-वदिता जनापवादान् ॥ ५६ ॥
चेष्टागत्याप्ये अनाक्रान्ते द्वितीया-चतुथ्र्यो । ५७। चेष्टारूपगमनक्रियाकर्मणि अनाक्रान्ते वर्तमानात् नाम्नः द्वितीया-चतुर्थी भवतः ।
ग्रामं गच्छति, ग्रामाय गच्छति । विप्रनष्टः पन्थानं गच्छति, पथे गच्छति । चेष्टाग्रहणं किम् ? मनसा मेरुं गच्छति । गतिग्रहणं किम् ? ओदनं पचति । अनाक्रान्ते इति किम् ? पन्थानं गच्छति । 'चतुर्थी च' इति अनुक्त्वा द्वितीयाग्रहणं षष्ठीबाधनार्थम्ग्रामं गन्ता, ग्रामाय गन्ता ।। ५७ ॥
तुल्यार्थैः तृतीया । ५८ । तुल्यार्थैः युक्तात् नाम्नः तृतीया भवति ।।
पित्रा समः । अर्थग्रहणं पर्यायार्थम् । उपमा नास्ति कृष्णस्य । तुला नास्ति चैत्रस्य । गोः इव गवयः । इति 'उपमा'आदयः न तुल्यार्थाः इति न भवति ॥ ५८ ॥
षष्ठी। ५९। तुल्याथैः युक्तात् नाम्नः षष्ठी भवति ।
मातुः तुल्यः । पितुः समः । तृतीयाम् अविकल्प्य षष्ठीविधानं सप्तमीबाधनार्थम्गवां तुल्यः स्वामी, गोभिः तुल्यः स्वामी । योगविभागः उत्तरार्थः ॥ ५९॥
द्वितीया च एनेन । ६० । 'एन'प्रत्ययान्तेन युक्तात् नाम्नः द्वितीया भवति, चकारात् षष्ठी च । पूर्वेण ग्रामम् , पूर्वेण ग्रामस्य ।। ६० ।।
ऋते पश्चमी च । ६१। 'ऋते'शब्देन युक्तात् नाम्नः पञ्चमी द्वितीया च भवति ।
१ अत्र वृत्तौ नैतद् उदाहरणद्वयम् , तच्च १।३।१६६ शाकटायनीयसूत्रस्य अमोघवृत्त्यनुसारेण उद्धृतम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org