________________
१०८] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
'क्त'प्रत्ययान्तस्य 'कृत्य'प्रत्ययान्तस्य च कर्तरि वर्तमानात् अप्रधानात् नाम्नः षष्ठी भवति । छात्रस्य हसितम् , छात्रेण हसितम् । भवतः कार्यम् , भवता कार्यम् ॥५१॥
उभयोः प्राप्तौ अन्अ-अकस्य । ५२। 'अ'कार-'अक'प्रत्ययवर्जितकृत्प्रत्ययान्तस्य उभयोः कर्म-कोंः षष्ठीप्राप्तौ वा कर्तरि षष्ठी भवति ।
___ साधु इदं शब्दानाम् अनुशासनम् आचार्यस्य आचार्येण वा । अन्अ-अकस्य इति किम् ? चिकीर्षा कटस्य चैत्रस्य । भेदिका काष्ठानां चैत्रस्य । कर्तरि इति किम् ? कर्मणि विकल्पो न भवति ॥ ५२ ॥
कर्मणि अप्रधाने । ५३ । कृतः अप्रधाने कर्मणि वर्तमानात् नाम्नः षष्ठी भवति ।
नेता अश्वस्य जुन्नम् सुन्नस्य वा । कर्मणि इति किम् ? भेदिका काष्ठानां चैत्रस्य मैत्रस्य । अप्रधाने इति किम् ? कर्ता कटस्य । अप्रधानं च मुख्यकर्मापेक्षम् अतः द्विकर्मका इह उदाहरणम्
"दुहि-याचि-रुधि-पृच्छि-भिक्ष-जयो ब्रुवि-शासि-कृञः कृषि-दण्डि-नयः । वहि-चोदि-चिञः अपि अपरे बुधैर्द्विविधाऽऽप्यभृतः गदिताः कविभिः" ॥५३॥
_ न कृत्यस्य । ५४। कृत्यप्रत्ययान्तस्य अप्रधाने कर्मणि वर्तमानात् नाम्नः षष्ठी न भवति ।
नेतव्या ग्रामम् अजा। कर्मणि इति किम् ? भेदयितव्यं काष्ठं देवदत्तस्य । अप्रधाने इति किम् ? गेयः माणवकः गाथानाम् ॥ ५४ ॥
खल्अर्थ-अव्यय-एष्यत्-ऋणेन्-खुणः । ५५ । पृथगवचनात् सामान्येन अयं निषेधः । 'खल्'अर्थादिकृत्प्रत्ययान्तानां कर्मणि कर्तरि च वर्तमानात् अप्रधानात् नाम्नः षष्ठी न भवति ।
सुकरः कटो भवता । अव्यय-ओदनं भुक्त्वा । ग्रामं गमी। शतं दायी। एधान् आहारको व्रजति ॥ ५५ ॥
१ द्विविधाः आप्यभृतः कर्मभृतः-द्विकर्मका इत्यर्थः । “नी-ह-वहि-कृषो ण्यन्ता दुहि-बप्रच्छि-भिक्षि-चि-रुधि-शास्वर्थाः । पचि-याचि-दण्डि-कृ-ग्रह-मथि-जिप्रमुखा द्विकर्माणः ॥ १३ ॥ सिद्धहेमशब्दानुशासनलघुवृत्तौ संग्रहश्लोकः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org