SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ नाम्नि सप्तमः पादः [१०७ शेषे । ४५। कारकेभ्यः अन्यः क्रियाकारकपूर्वकः संबन्धः शेषः, तस्मिन् वर्तमानात् अप्रधानात् नाम्नः एक-द्वि-बहौ अस्-ओस्-आम् लक्षणा षष्ठी भवति । राज्ञः पुरुषः । पशोः पादः । नटस्य शृणोति ॥ ४५ ॥ ... रि-रिष्टात्-स्तात्-अस्-अतस्-आता । ४६ । एभियुक्तात् अप्रधानात् नाम्नः षष्ठी भवति । उपरि ग्रामस्य । उपरिष्टात् ग्रामस्य । परस्तात् ग्रामस्य । पुरः ग्रामस्य । दक्षिणतः ग्रामस्य । दक्षिणात् ग्रामस्य ॥ ४६॥ अज्ञाने ज्ञः करणे । ४७। अज्ञानार्थस्य जानातेः करणे वर्तमानात् अप्रधानात् नाम्नः षष्ठी भवति । सर्पिषो जानाति-सर्पिषि रक्तः द्विष्टो वा सर्वं तद्रूपेण जानाति इत्यर्थः । करणे इति किम् ? तैलं सर्पिषः जानाति, तैलात् न भवति । अज्ञाने इति किम् ? स्वरेण पुत्रं जानाति । तृतीयापवादो योगः ।। ४७ ।। कृतः कर्म-कोंः । ४८ । कृत्प्रत्ययान्तस्य कर्मणि कर्तरि च वर्तमानात् अप्रधानात् नाम्नः षष्ठी भवति । अपां स्रष्टा । भवतः आसिका ॥ ४८ ।। कमेः एव उकणः। ४९ । 'उकण्'प्रत्ययान्तस्य कमेः एव कर्मणि वर्तमानात् अप्रधानात् नाम्नः षष्ठी भवति । दास्याः कामुकः । कमेः एव इति किम् ? ग्रामम् आगामुकः ॥ ४९ ॥ क्तस्य सत्-आधारे । ५० । सति आधारे च अर्थ यः क्तः तदन्तस्य कर्मणि कर्तरि च वर्तमानात् अप्रधानात् नाम्नः षष्ठी भवति । राज्ञां मतः । इदम् ओदनस्य भुक्तम् ॥ ५० ॥ वा क्त-कृत्ययोः कर्तरि । ५१। १ अत्र वृत्त्यनुसारेण सूत्रमिदं कल्पितम् । २ °क्तः दुष्टो वा पा० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy