________________
१०६ ] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् । ... उप खार्यां द्रोणः-द्रोणेन अधिका खारी इत्यर्थः । अधिकिनि इति किम् ? अधिकाय मा भूत् ॥ ३९ ॥
. हेतौ कर्मणा । ४०। कर्मणा युक्तात् हेतौ वर्तमानात् नाम्नः सप्तमी भवति ।।
चर्मणि द्वीपिनं हन्ति । हेतौ इति किम् ? चैत्रस्य पटं करोति । कर्मणा इति किम् ? विद्यया वसति । तृतीयापवादो योगः ॥ ४० ॥
। यद्भावः भावलक्षणम् । ४१ । प्रसिद्धं लक्षणम् अप्रसिद्ध लक्ष्यम् । यस्य भावेन भावान्तरं लक्ष्यते तत्र वर्तमानात् अप्रधानात् नाम्नः सप्तमी भवति ।
गोषु दुह्यमानासु गतः । आनेषु कलायमानेषु गतः 'जातेषु' इति गम्यते । गम्यमानम् अपि विभक्तेः निमित्तम् यथा 'प्रविश पिण्डीम्' इत्यादौ । 'यद्'ग्रहणम् प्रकृत्यर्थम् । भावग्रहणम् किम् ? जटाभिस्तस्य भोजनम् । भावलक्षणम् इति ? यस्य भोजनं स चैत्रः । तृतीयापवादो योगः ॥ ४१ ॥
षष्ठी च अनादरे । ४२। यद्भावः भावलक्षणम् तस्मात् अनादरे गम्यमाने षष्ठी सप्तमी च भवति । रुदति लोके प्राब्राजीत् , रुदतः लोकस्य प्राब्राजीत्-रुदन्तम् अनादृत्य इत्यर्थः ॥४२॥
यतः निर्धारणम् । ४३ । यतः समुदायात् एकदेशनिर्धारणं तद्वाचिनः नाम्नः षष्ठी सप्तमी च भवति । गवां कृष्णा संपन्नक्षीरा, गोषु कृष्णा संपन्नक्षीरा ॥ ४३ ।। स्वामि-ईश्वर-अधिपति-दायाद-साक्षि-प्रतिभू-प्रसूतैः । ४४ । एभिर्युक्तात् अप्रधानात् नाम्नः षष्ठी सप्तमी च भवति ।
गवां स्वामी, गोषु स्वामी । गवाम् ईश्वरः, गोषु ईश्वरः । गवाम् अधिपतिः, गोषु अधिपतिः । गवां दायादः, गोषु दायादः । गवां साक्षी, गोषु साक्षी। गवां प्रतिभूः, गोषु प्रतिभूः । गवां प्रसूतः, गोषु प्रसूतः । 'स्वामि'-'ईश्वर'-'अधिपति'शब्दपृथगुपादानात् पर्यायान्तरप्रयोगे न भवति-ग्रामस्य राजा । सप्तम्यर्थं वचनम् ॥ ४४ ॥
१ विभक्त्य( क्त्या) नि पा० । २ रुदिते लो पा० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org