________________
नाम्नि सप्तमः पादः
[ १०५ दिक्शब्द-अन्यार्थ-आरात्-बहिर्-इतरैः। ३५।। दिकशब्दैः अन्याथैः 'आरात्'आदिभिश्च युक्तात् अप्रधानात् नाम्नः पञ्चमी भवति ।
पूर्वः ग्रामात् । अपरः ग्रामात् । पूर्वः वसन्तात् । दिशि दृष्टाः शब्दा दिक्शब्दा इति देश-कालादिवृत्तौ अपि भवति, एतदर्थमेव च 'शब्द'शब्दोपादानम् । 'न्यम् देवदत्तस्य' इति दिक्शब्दत्वाभावात् न भवति । अन्यः चैत्रात् । अत्रान्तरं मैत्रात् । आरात् ग्रामात् । बहिर् ग्रामात् । इतरः देवदत्तात्-तस्य द्वितीय इत्यर्थः । द्वयोः उपलक्षितयोः अन्यतरवचनः 'इतर'शब्दः न अन्यार्थ इति तदुपादानम् । 'चैत्रात् अन्यः मैत्रस्य' 'छात्राणां पूर्वम् आमन्त्रयस्व' इत्यादौ मैत्रादेः अन्यत्वादिना योगाभावात् न भवति । षष्ठयपवादो योगः ॥ ३५ ॥
सप्तमी अधिकरणे । ३६ । अधिकरणे वर्तमानात् अप्रधानात् नाम्नः एक-द्वि-बहौ यथासंख्यं ङि-ओस्-सुप् लक्षणा सप्तमी भवति । आसने आस्ते । गङ्गायां घोषः ॥ ३६ ॥
तेनः कर्मणि । ३७ । 'क्त'प्रत्ययान्तात् 'इन्' तदन्तस्य कर्मणि वर्तमानात् अप्रधानात् नाम्नः सप्तमी भवति ।
अधीती व्याकरणे । क्तेनः इति किम् ? कटं करोति । कृतपूर्वी कटम् । 'साधुः चैत्रः मातरि' इति विषयसप्तम्या सिद्धम् ॥ ३७॥
स्व-ईशे अधिना । ३८ । 'अधि'शब्देन युक्तात् स्वे ईशितव्ये ईशे ईशितरि च वर्तमानात् अप्रधानात् नाम्नः सप्तमी भवति । अधि मगधेषु श्रेणिकः । अधि श्रेणिके मगधाः । षष्ठ्यपवादो योगः ॥ ३८ ॥
उपेन अधिकिनि । ३९। 'उप'शब्देन युक्तात् अधिकिनि वर्तमानात् नाम्नः सप्तमी भवति ।।
१ मूलसूत्रे 'दिक्शब्द' इत्यत्र 'शब्द'शब्दस्य ग्रहणम् । २ "योगे स्वे ईशितव्ये ईशे ईशितरि स्वामिनि च" ११३१७४। इति अमोघवृत्तौ ।
१४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org