SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ १०४ ] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् । परिक्रये करणे वा । २९ ।। वेतनादिना कियन्तं कालं स्वीकारः परिक्रयः, तद्विषये करणे वर्तमानात् अप्रधानात् नाम्नः चतुर्थी भवति वा । शताय परिक्रीतः, शतेन परिक्रीतः । परिक्रये इति किम् ? शतेन क्रीणाति ।।२९।। अपादाने पञ्चमी । ३० । अपादाने वर्तमानात् अप्रधानात् नाम्नः एक-द्वि-बहौ यथासंख्यं ङसि-भ्याम्भ्यस् लक्षणा पञ्चमी भवति । ग्रामात् आगच्छति । दूरं ग्रामात् । 'दूरं ग्रामस्य' इति अपादानशेषविवक्षया सिद्धम् ॥ ३० ॥ ___ आङा अवधौ । ३१ । अवधौ वर्तमानात् अप्रधानात् नाम्नः आङा योगे पञ्चमी भवति । आ पाटलिपुत्रात् वृष्टो देवः-पाटलिपुत्रम् अवधीकृत्य तत् व्याप्य अव्याप्य वा वृष्टः इत्यर्थः ॥ ३१ ॥ __ वज्ये अप-परिणा। ३२ । अप-परिभ्यां युक्तात् वये अर्थे वर्तमानात् अप्रधानात् नाम्नः पञ्चमी भवति । अप पाटलिपुत्रात् वृष्टो देवः, परि पाटलिपुत्रात् वृष्टो देवः-पाटलिपुत्रं वैर्जित्वा वृष्टः इत्यर्थः । वर्षे इति किम् ? अपशब्दः चैत्रस्य ॥ ३२ ॥ प्रतिनिधि-प्रतिदाने प्रतिना । ३३ । प्रतिनिधौ प्रतिदाने च गम्यमाने प्रतिना युक्तात् अप्रधानात् नाम्नः पञ्चमी भवति, योगश्च 'प्रति'शब्देन, यतः प्रतिनिधिः यतश्च प्रतिदानम् तस्य भवति इति ततः विधिः। प्रद्युम्नः वासुदेवात् प्रति-वासुदेवस्य सदृशः इत्यर्थः । तिलेभ्यः प्रति माषान् प्रयच्छति-तिलान् गृहीत्वा माषान् ददाति इत्यर्थः ॥ ३३ ॥ यपः स्थानिनः कर्म-आधारे । ३४ । यबन्तस्य स्थानिनः कर्मणि आधारे च वर्तमानात् अप्रधानात् नाम्नः पञ्चमी भवति । प्रासादात् प्रेक्षते । आसनात् प्रेक्षते । यपः इति किम् ? प्रविश पिण्डीम् । स्थानिनः इति ? प्रासादमारुह्य प्रेक्षते । आसने उपविश्य प्रेक्षते ॥ ३४ ॥ १ अपादानस्य शेषरूपेण विवक्षया । २ वर्जयित्वा पू• । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy