________________
नाम्नि सप्तमः पादः
[ १०३ करोति इत्यर्थः । मूत्राय कल्पते यवागूः । श्लेष्मणे जायते दधि-तद्विकारम् आपद्यते इत्यर्थः । मूत्रं संपद्यते यवाग्वाः इति अपायविवक्षा । चैत्राय शतं धारयति ॥ २३ ॥
प्रति-आङः श्रुवा अभ्यर्थके । २४ । प्रति-आपूर्वेण शृणोतिना युक्तात् अभ्यर्थके वर्तमानात् अप्रधानात् नाम्नः चतुर्थी भवति ।
चैत्राय प्रतिशणोति । चैत्राय आशृणोति-अभ्युपगच्छति इत्यर्थः । प्रति-आङः इति किम् ? चैत्रस्य शणोति । अभ्यर्थक इति किम् ? चैत्राय गां प्रतिशृणोति, 'गो'शब्दात् न भवति ॥ २४ ॥
प्रति-अनोः गृणा आख्यातरि । २५ । 'प्रति-अनुपूर्वेण गृणातिना युक्तात् आख्यातरि वर्तमानात् नाम्नः चतुर्थी भवति ।
उपाध्यायाय प्रतिगृणाति, उपाध्यायाय अनुगृणाति-उपाध्यायेन उक्तं ब्रवीति, प्रशंसन्तं वा प्रोत्साहयति इत्यर्थः । प्रति-अनोः इति किम् ? उपाध्यायं गृणाति । आख्यातरि इति किम् ? उपाध्यायं मनसा प्रतिगृणाति, 'मनः'शब्दात् न भवति । 'वाताय कपिला विद्युत्'-वातार्थम् इत्यर्थः । 'चैत्राय राध्यति' 'चैत्राय ईक्षते'-चैत्रार्थ शुभाशुभसूचकं किञ्चित् निरूपयति इति । “यदर्थम् ततः” [नाम्नि सप्तमः पादः सूत्र २८] इत्येव चतुर्थी ॥ २५ ॥
श्लाघ-नु-स्था-शपा ज्ञीप्स्यमाने । २६ । 'श्लाघ्'आदिभिर्युक्तात् ज्ञीप्स्यमाने अर्थे वर्तमानात् नाम्नः चतुर्थी भवति ।
छात्राय श्लाघते । छात्राय हृते । छात्राय तिष्ठते । छात्राय शपते । ज्ञीप्स्यमाने इति किम् ? चैत्राय आत्मानं श्लाघते । चैत्राय शतम् अप ते । केचित् ज्ञाप्ये एव इच्छन्ति ॥ २६ ॥
संप्रदाने । २७। संप्रदाने वर्तमानात् अप्रधानात् नाम्नः चतुर्थी भवति । तपस्विने भिक्षां ददाति । पुष्पेभ्यः स्पृहयति ॥ २७ ॥
यदर्थम् ततः। २८ । यस्मै इदं विवक्षितम् तद्वाचिनः अप्रधानात् नाम्नः चतुर्थी भवति । रथाय दारु । रन्धनाय स्थाली ॥ २८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org