________________
नाम्नि सप्तमः पादः
[ १०१ 'सह'अर्थेन । १६ । सहार्थः तुल्ययोगः विद्यमानता च । तेन युक्ते अर्थे वर्तमानात् अप्रधानात् नाम्नः तृतीया भवति ।
पुत्रेण सह आगतः । पुत्रेण सह स्थूलः । पुत्रेण साकम् । 'अर्थ'ग्रहणं पर्यायार्थम् ॥ १६ ॥
_ समः ज्ञः व्याप्ये वा अस्मृतौ । १७ । _ 'सम्पूर्वस्य जानातेः अस्मृतौ वर्तमानस्य व्याप्ये वर्तमानात् अप्रधानात् नाम्नः तृतीया वा भवति ।
__मात्रा संजानीते, मातरं संजानीते । सम इति किम् ? मातरं जानाति । अस्मृतौ इति किम् ? मातरं संजानाति-स्मरति इत्यर्थः । व्याप्ये इति किम् ? मातरं स्वरेण संजानीते-करणे विकल्पो न भवति ॥ १७ ॥
___अधर्म्य दाणा आत्मनेपदं च देये । १८ ।
अधर्म्य अर्थे वर्तमानेन दाणा युक्तात् देये व्याप्ये वर्तमानात् अप्रधानात् नाम्नः तृतीया भवति, तस्माच्च दाणः आत्मनेपदम् ।
दास्या संप्रयच्छते-कामुकः सन् तस्यै ददाति इत्यर्थः । दाणा इति किम् ? तस्यै संददाति । अधर्म्य इति किम् ? पल्यै संप्रयच्छति । देये इति किम् ? द्रव्यं वृषल्या संप्रयच्छति । द्रव्यात् न भवति ॥ १८ ॥
तुमर्थस्य स्थानिनः चतुर्थी । १९ । यस्य अर्थः प्रतीयते न च प्रयोगः स स्थानी । स्थानिनः तुमर्थस्य व्याप्ये वर्तमानात् अप्रधानात् नाम्नः एक-द्वि-बहौ यथासंख्यं डे-भ्याम्भ्यस् लक्षणा चतुर्थी भवति ।
उदकाय व्रजति-उदकम् आहर्तुं व्रजति इत्यर्थः । पाकाय व्रजति । भूतये व्रजति । तुमर्थस्य इति किम् ? प्रविश पिण्डीम् , अत्र 'भक्षय' इति पञ्चम्यन्तं स्थानि । स्थानिनः इति किम् ? पाकं कर्तुं व्रजति । व्याप्य इति किम् ? उदकाय घटेन व्रजति, घटात् न भवति ॥ १९ ॥
मन्यस्य अ'काक'आदिषु वा यतः अवज्ञा । २० । यस्मात् अन्यस्य अवज्ञा तस्मात् 'काक'आदिवर्जितात् मन्यतेः व्याप्यात् अप्र१ पाणिनीयतन्त्र लोट्लकारान्तम् इदं क्रियापदम् न तु तुमर्थकम् । अत्र लोट्लकारस्यैव पश्चमी इति संज्ञा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org