________________
१०० ]
आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
पदापेक्षम् तेन 'अजां नयति ग्रामम्' इत्यादौ 'ग्राम' आद्यपेक्षया अजादेः प्रधानत्वेऽपि अप्रधानत्वं न विहन्यते ॥ ११ ॥
क्रियाविशेषणात् । १२ ।
क्रियाविशेषणात् अप्रधानात् नाम्नः द्वितीया भवति ।
मृदु पचति । स्तोकं पचति । पूर्वेण एव सिद्धे विभक्त्यन्तरबाधनार्थं वचनम् तेन 'शोभनं पक्ता' इत्यादौ षष्ठी न भवति ॥ १२ ॥
काल- अध्वनोः व्याप्तौ । १३ ।
व्याप्तिर्द्रव्यादिना कात्र्त्स्न्येन संबन्धः, तस्यां द्योत्यायां कालवाचिनः अध्ववाचिनश्व अप्रधानात् नाम्नः द्वितीया भवति ।
मासं गुडधानाः । क्रोशं कुटिला नदी । योजनम् अधीते । व्याप्तौ इति किम् ? मासे मासस्य द्वयहं गुडधानाः । षष्ठी - सप्तम्यपवादो योगः । भावाद् अपि इच्छन्ति अन्येगोदोहं बुदबुदाः ॥ १३ ॥
सिद्धौ तृतीया । १४।
सिद्धिः क्रियाफलनिष्पत्तिः, तस्यां द्योत्यायां काल- अध्ववाचिनः अप्रधानात् नाम्नः एक - द्वि- बहौ यथासंख्यं टा-भ्याम् - भिस् लक्षणा तृतीया भवति ।
मासेन मासाभ्याम् मासैर्वा व्याकरणम् अधीतम् । सिद्धौ इति अधीतं शब्दानुशासनम् अनेन, न च गृहीतम् । भावाद् अपि इच्छन्ति कृतः कटः ॥ १४ ॥
हेतु-कर्तृ-करण- इत्थंभूतलक्षणे । १५ ।
फलसाधनयोग्यः पदार्थः हेतु:, हेतुआदिषु अर्थेषु वर्तमानात् अप्रधानात् नाम्नः तृतीया भवति ।
किम् ? मासम्
अन्ये - गोदोहेन
धन कुलम् । चैत्रेण कृतम् । दात्रेण लुनाति । अपि भवान् कमण्डलुना छात्रम् अद्राक्षीत् । छात्रत्वादिकं प्रकारम् आपन्नस्य कमण्डलुआदि लक्षणम् । 'अपि भवान् कमण्डलुपाणिं छात्रम् अद्राक्षीत्' इत्यत्र लक्ष्यप्रधानो निर्देशः न लक्षणप्रधानः इति न भवति । ‘समेन धावति’- समेन पथा धावति इत्यर्थः । ' अक्ष्गा काण:' इत्यादौ कर एव तृतीया ॥ १५ ॥
१ कारस्र्न्यसंबन्धः पा० । २ 'तू उच्चादिकं प्रा० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org