________________
नाम्नि सप्तमः पादः
[ ९९.
जिनजन्ममहोत्सवम् अनु आगच्छन् सुराः - तेन हेतुना इत्यर्थः । पर्वतम् अनु. आसिता सेना - तेन सह संबद्धा - तेन कर्त्रा करणेन वा कृतान्ता इत्यर्थः । तृतीयापवादो योगः ॥ ७ ॥
वीप्स्य- लक्षण - इत्थंभूतेषु अभिना । ८ ।
अवयवशः समुदायस्य 'क्रिया' आदिना साकल्येन व्याप्तुम् इच्छा वीप्सा तत्कर्म वीप्स्यम् । येन लक्ष्यते तत् लक्षणम् - चिह्नम् । केनचित् विवक्षितेन प्रकारेण भावः इत्थंभावः तद्विषयः इत्थंभूतः । एषु अर्थेषु वर्तमानात् अभिना युक्तात् अप्रधानात् नाम्नः द्वितीया भवति ।
वृक्षम् वृक्षम् अभि सिच्यते । वृक्षम् अभि विद्योतते विद्युत् । साधुः देवदत्तः मातरम् अभि । एतेषु इति किम् ? यत् अत्र मम अभि स्यात् तत् दीयताम् - (- अत्र अभिना भागसंबन्धः द्योत्यते—‘यः अत्र मम भागः स्यात्' इति । बहुवचनम् 'एक - द्वि- बहौ' इत्यनेन सह यथासंख्याऽभावार्थम् ।। ८ ।।
भागिनि च प्रति-परि-अनुभिः । ९ ।
स्वीक्रियमाणः अंशः भागः तदीश्वरो भांगी, तस्मिन् ' वीप्स्य' आदिषु च अर्थेषु वर्तमानात् ‘प्रति’आदिभिर्युक्तात् अप्रधानात् नाम्नः द्वितीया भवति ।
- यः अत्र मम भाग:
यद् अत्र मां प्रति स्यात्, मां परि, माम् अनु तद् दीयताम्आभजति स दीयताम् -- इत्यर्थः । वीप्स्ये - वृक्षं वृक्षं प्रति, वृक्षं वृक्षं परि, वृक्षं वृक्षम् अनु सेचनम् । लक्षणे-वृक्षं प्रति, वृक्षं परि, वृक्षम् अनु विद्योतते विद्युत् । इत्थंभूतेसाधुः देवदत्तः मातरम् प्रति, मातरं परि, मातरम् अनु । एतेषु इति किम् ? अनु वनस्य अशनिर्गता-समीपे इत्यर्थः । अत्रापि बहुवचनं यथासंख्याऽभावार्थम् ॥ ९ ॥
उत्कृष्टे अनु-उपेन । १० ।
उत्कृष्टे अर्थे वर्तमानात् अनु-उपाभ्यां युक्तात् अप्रधानात् नाम्नः द्वितीया भवति । . अनु शाकटायनं वैयाकरणाः । उप कालिदास कवयः - तस्मात् अन्ये हीनाः इत्यर्थः ॥ १० ॥
कर्मणि । ११ ।
कर्मणि वर्तमानात् अप्रधानात् नाम्नः द्वितीया भवति ।
कटं करोति । 'क्रियते कटः' इत्यादौ उक्ते कर्मणि प्रथमा । अप्राधान्यं क्रिया
१ अभि विद्यते विद्युत् पू० । २ अनु द्योतते पा० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org