________________
९८ ] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
प्रसिद्धतत्संबन्धस्य किमपि आख्यातुम् अभिमुखीकरणम् आमन्त्रणम् , तद्विषयः आमन्त्र्यः तस्मिन् वर्तमानात् नाम्नः एक-द्वि-बहौ यथासंख्यं प्रथमा भवति ।
हे देवदत्त ! । हे देवदत्तौ ! । हे देवदत्ताः !। आमन्त्र्यस्य क्रियाविशेषकत्वात् विशेषणविशेष्यभावे षष्ठीप्राप्तौ वचनम् ॥ ३ ॥
द्विः अध:-अधि-उपरिभिः अप्रधानात द्वितीया । ४।
द्विरुक्तैः अधः-अधि-उपरिभिर्युक्तात् अप्रधानात् नाम्नः एक-द्वि-बहौ यथासंख्यं अम्-औ-शरस् लक्षणा द्वितीया विभक्तिर्भवति ।
- अधोऽधो ग्राम ग्रामाः । अध्यधि ग्राम क्षेत्राणि । उपर्युपरि ग्रामं ग्रामाः। द्विः इति किम् ? अधः प्रासादस्य । षष्ठ्यपवादो योगः ॥ ४ ॥
निकषा-समया-हा-धिक्-अन्तरा-अन्तरेणैश्च । ५।
एभिर्युक्तात् अप्रधानात् नाम्नः एक-द्वि-बहौ यथासंख्यं द्वितीया विभक्तिर्भवति ।
निकषा पर्वतं कुण्डम् । समया पर्वतं नदी। हा! देवदत्तं अयशः प्रवृद्धम् । धिक् चैत्रं वर्धते व्याधिः । अतिवृद्धं कुरून् महद् बलम् कुर्वतिक्रमेण वृद्धम्-इत्यर्थः । अन्तरा निषधं नीलं च विदेहाः । अन्तरेण गन्धमादनं माल्यवन्तं च उत्तराः कुरवः । 'हा-धिक्'आदिसाहचर्यात् 'अन्तरा'-'अन्तरेण'शब्दयोः अव्यययोः ग्रह्णात् इह न भवतिराजधान्या अन्तरायां पुरि वसति । किं ते केशव-अर्जुनयोः अन्तरेण गतेन ? । 'हा तात !' 'धिक मातः !' इत्यादौ 'तात'आदेः आमन्त्र्यतया विवक्षा, न 'हा'आदियुक्तत्वेन इति न भवति । 'हा कृतं चैत्रस्य' 'धिक् कृतं मैत्रस्य' 'हा'-'धि'शब्दाभ्यां 'कृत'शब्दे न्यग्भूतत्वात् न चैत्रादेः साक्षात् योगः किन्तु तद्विशिष्टेन 'कृत'शब्देन । चकारः अनुक्तसमुच्चयार्थः तेन-'बुभुक्षितं न प्रतिभाति किञ्चित्' इत्यादौ अपि भवति ॥ ५ ॥
सर्व-उभय-अभि-परिणा तसा ।। एभिः 'तस्'अन्तैर्युक्तात् अप्रधानात् नाम्नः द्वितीया भवति । सर्वतः ग्रामं वनानि । उभयतः ग्रामम् । अभितः ग्रामम् । परितः ग्रामम् ॥६॥
__ 'टा'अर्थ अनुना । ७। 'टा'अर्थः 'हेतु'आदिः, तत्र वर्तमानात् 'अनु'शब्देन युक्तात् अप्रधानात् नाम्नः द्वितीया भवति ।
१ नास्ति इदम् उदाहरणं पा० पुस्तके ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org