________________
नाम्नि सप्तमः पादः
संबन्धे । १। अधिकारः अयम् आ शास्त्रपरिसमाप्तेः । इतः ऊर्ध्वम् वक्ष्यमाणं संबन्धे सति वेदितव्यम् ।
वक्ष्यति-निकषा-समया-हा-धिक्-अति-अन्तरा-अन्तरेणैश्च' [ नाम्नि सप्तमः पादः सू० ५ ] चैत्रं मैत्रं चान्तरा पुस्तकम् । इह न भवति-चैत्र-मैत्रयोः अन्तरा पुस्तकम्' अत्र चैत्र-मैत्रयोः पुस्तकेन संबन्धः न 'अन्तरा' इत्यनेन । 'कर्मणः अण्' [ कृत् द्वितीयपादे सू० १५ ] कुम्भं करोति कुम्भकारः । इह न भवति-पश्य कुम्भम् , करोति कटं चैत्रः । 'अयदि स्मृत्यर्थे भविष्यन्ती' [ कृत् तृतीयपादे सू० २४ ] स्मरसि मित्र ! लाटदेशे वत्स्यामः । इह न भवति-स्मरति चैत्रः मातरम् , अवसाम लाटदेशे । 'ङसः अपत्ये' [ ] उपगोः-अपत्यम् औपगवः । इह न भवति-गृहम् उपगोः, अपत्यं चैत्रस्य ॥ १॥
नाम्नः प्रथमा एक-द्वि-बहो । २। एक-द्वि-बहुषु वर्तमानात् नाम्नः परा यथासंख्यं सि-औ-जस् लक्षणा प्रथमा विभक्तिर्भवति । 'कर्म'आदिषु 'द्वितीया आदिविभक्तिविधानात् इह अर्थमात्रे प्रथमा । तच्च अर्थमात्रम्-स्वार्थ-द्रव्य-लिङ्ग-संख्या-शक्तिलक्षणम् । तत्र शब्दस्य अर्थे प्रवृत्तिनिमित्तम् 'तल्'आदिप्रत्ययवाच्यम् स्वरूप-जाति-गुण-क्रिया-द्रव्य-संबन्धआदिरूपं स्वार्थः । स च भावः विशेषणम् गुणः इति च आख्यायते ।
डित्थः । गौः । शुक्लः । कारकः । दण्डी । राजपुरुषः । औपगवः । यत् पुनः 'इदम्'-'त्यत्'इत्यादिना वस्तूपलक्षणेन सर्वनाम्ना व्यपदेश्यम् स्वार्थस्य व्यवच्छेद्यम् लिङ्गसंख्या-शक्तिआदिआश्रयः सत्त्वभूतं तत् द्रव्यम् तच्च 'विशेष्यम्' इति च आख्यायते । 'डी'-'आप'आदिप्रत्ययहेतुः स्त्री-पुं-नपुंसकं लिङ्गम् । भेदप्रतिपत्तिहेतुः एकत्वादिका संख्या । स्व-पराश्रितक्रियानिष्पत्तिहेतुः कारकरूपा तत्पूर्वकसंबन्धरूपा च शक्तिः । सा द्विधा-'तिव'आदिभिः अभिहिता अनभिहिता च । तत्र अभिहिता अर्थमात्रम्-क्रियते कटः । पचति चैत्रः । स्नानीयं चूर्णम् । अनभिहितायां 'द्वितीया'आद्या विभक्तयः ॥२॥
आमन्त्र्ये ।३।
१ इति वा
आ° पा० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org