________________
९६ ] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् । किम् ? सुनयिका । अशोकिका । दाक्षिणात्यिका । आपः इति किम् ? कुत्सिता स्वा आत्मा आत्मीया वा स्विका । प्रियहयिका । अस्यादेः इति किम् ? अतिभस्त्राका ॥३६॥
द्वि-एष-सूत-पुत्र-वृन्दारस्य । ३७ । एषाम् अन्तस्य अनित्प्रत्ययावयवे ककारे आप्परे इकार आदेशो वा भवति, न तु स्यादेः परे आपि ।
द्विके, द्वके । एषिका, एषका । सूतिका, सूतका । पुत्रिका, पुत्रका । वृन्दारिका, वृन्दारका । 'एष' इति सविकारनिर्देशात् इह न भवति-ऐतिकाश्चरन्ति ॥ ३७ ॥
वौ वर्तिका । ३८ । वौ वाच्ये 'वर्तिका' इति वा निपात्यते । वर्तिका, वर्तका शकुनिः । वौ इति किम् ? वर्तिका अन्या ।। ३८ ॥
___ अक्षिपकादेः अतः। ३९ । 'क्षिपक आदिवर्जितस्य शब्दरूपस्य संबन्धिनः अकारस्य अनित्प्रत्ययावयवे ककारे आप्परे नित्यम् इकार आदेशो भवति, न तु स्यादेः परे आपि ।
कारिका । हारिका । क्षिपकादिप्रतिषेधः किम् ? क्षिपका । ध्रुवका । यका । सका । चटका । इष्टका । तारका ज्योतिषि । वर्णका तान्तवे प्रावरणविशेषे । अष्टका पितृदेवत्ये । अतः इति किम् ? नौका । अनितः इति किम् ? जीवका । नन्दका । प्रत्ययस्य अवयवे ककारे इति किम् ? शक्नोति इति शका । अस्यादेः इति किम् ? बहुपरिवाजिका मथुरा ॥ ३९ ॥
नरिका मामिका । ४० । एते अकारस्य इत्वेन निपात्येते । नरान् कायति इति नरिका । मम इयम् मामिका ॥ ४० ।। इति श्रीमलयगिरिविरचिते शब्दानुशासने वृत्तौ नाम्नि षष्ठः पादः समाप्तः ।।
१ 'एत'शब्दः कर्बुरवर्णवाचकः अतः एतिकाः चित्रविचित्रवर्णयुक्ताः । २ वटका । पा० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org